________________
अथ ऋषिभाषितानि (भाग-२)
।। अथ त्रयोविंशतितमाध्यायः।। अत्रापि प्रकारान्तरेण सिद्धिगत्यधिगतिमाह"दुवे मरणा अस्सिं लोए एवमाहिज्जति, तं जहा- सुहमतं चेव दुहमतं चेव" रामपुत्तेण अरहता इसिणा बुइत।।२३-१।।
द्वे मरणेऽस्मिंल्लोक एवमाख्यायेते, तद्यथा सुखमृतम्समाधिमरणम्, दुःखमृतम् - असमाधिमरणम्, चैवौ - समुच्चये, इति रामपुत्रेणार्हतर्षिणोदितम्। अत्रेष्टानिष्टप्राप्तिपरिहारमात्मव्यपदेशेनाह -
एत्थं वित्तिं विण्णत्तिं बेमि- इमस्स खलु ममाइस्स असमायलेसस्स गंडपलिघाइयस्स गंडबंधणपलियस्स गंडबंधणपडिघातं करेस्सामि। अलं पुरेमएणं, तम्हा गंडबंधणपडिघातं करेत्ता णाण-दसणचरित्ताई पडिसेविस्सामि। णाणेणं जाणिय दंसणेणं पासित्ता संजमेणं संजमिय तवेण अट्ठविहकम्मरयमलं
- आर्षोपनिषद् - विधुणित विसोहिय अणादीयं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं वीतिवतित्ता सिवमयलमरुयमक्खयमव्वाबाहमपुणरावत्तयं सिद्धिगतिणामधिज्ज ठाणं संपत्ते अणागतद्धं सासतं कालं चिट्ठिस्सामि त्ति।।२३-२।।
अत्र वृत्तिम्- व्याख्यारूपाम्, विज्ञप्तिम्- निवेदनम्, ब्रवीमि - कथयामि, अस्य स्वान्ते वर्तमानतया प्रत्यक्षस्य, खलु ममायितस्य - ममकारस्य, कीदृशस्येत्याह - असमाहतलेश्यस्य - समतानुवेधेनाप्रतिहतपरिणामस्य, गण्डः - ग्रन्थिः परिग्रह इति यावत्, तेन परिघातितम् - समन्ताद्विनाशितम् - गण्डपरिघातितम् - परिग्रहप्रभावोद्रिक्तममकारविकृतात्मस्वरूपमित्यर्थः, एतदपि ममायितविशेषणम्, रागोपयोगतयाऽस्यात्मनोऽभिन्न त्वादिति, गण्डः - ग्रन्थिरेव, तल्लक्षणं बन्धनम्, तस्य पलितम्कर्म' क्रियेति यावत्, जीवस्य रागादिबन्धननिष्पादनमित्यर्थः, इत्थमेव सुबद्धतायोगात्, तस्य यदाह - न पेमरागा सममत्थि बंधो - इति । तदेतद्विशेषणविसरविशिष्टस्य ममायितस्य दुष्परिणामाननुचिन्त्य गण्डबन्धनप्रतिघातं करिष्यामि। अलम् - कृतम्, पुरामृतेन - अतीतकालेऽनन्तशोऽनुभूतेन दुःखमरणेन। तेनोद्विग्नोऽहं तन्निबन्धननिचयपरिवर्जनद्वारेण तन्मुक्तो भविष्यामीत्यभिप्रायः। ___एतदेवाह - तस्माद् गण्डबन्धनप्रतिघातं कृत्वा ज्ञानदर्शनचारित्राणि प्रतिसेविष्ये। ज्ञानेन सर्वभावान् ज्ञात्वा, १. आचाराङ्गे । ।१-४-३ ।। २. गौतमकुलके ।
१. एतदुभयवक्तव्यता प्रागुदिता नामान्तरेण, दृश्यताम् ।। अ.१४ ।। २. क-ग-द-तुण-न-प- वितिविण्णत्ति । ख-ज-ठ-ध-वितिं विण्णत्तिं । घ-झ-त-च-विण्णर्ति । ट- वित्ति विण्णत्ति । ध- वितिं विणत्ति । ३. क-ग-ज-द-ट-ठ- समाह । ख-थ- समहे । ढ-ध-न-पण- समाहयं । घ-च-झ-त- समाहि । ४. क-ण- घाइस्स । ख-ग-घ-च-ज-झ-ट-ठ-ड-ढ-णत-थ-ध-न-प- घाइयस्स।
Ashopnisad_2.p65
2nd Proof