________________
70 ऋषिभाषितानि
संकोड मोडणाई हिययुप्पाडणाई दसणुप्पाडणाई उल्लंबणाई ओलंबणाई घंसणाई घोलणाई पीलणाई सीहपुच्छणाई कडग्गि- दाहणाई भत्तपाण-निरोहणाई दोगच्चाई दोभत्ताई दोमणस्साई भाउमरणाई भइणिमरणाई पुत्तमरणाई धूयमरणाई भज्जमरणाई अण्णाणि य सयण-मित्त-बंधुवग्गमरणाई, तेसिं च णं दोगच्चाई दोभत्ताई दोमणस्साई अप्पियसंवासाई पियविप्पओगाई हीलणाई खिसणाई गरहणाई पव्वहणाई परिभवणाई आगड्डणाई, अण्णयराई च दुक्खदोमणस्साई पच्चणुभवमाणे अणाइयं अणवदग्गं दीहमद्धं चाउरंतसंसारसागरं अणुपरियट्टति । । ९-२।।
उपचयफलमाह - कर्मणा खलु भोः ! अप्रहीणेन बहुबन्धस्तोकनिर्जराभ्यासेनात्यन्तिकोपचयसमन्वितेन पुनरपि सानुबन्धकर्मानुभावादभीक्ष्णमपि आगच्छति समन्तात्प्राप्नोति, किमित्याह- हस्तछेदनानि, पौनःपुन्येन भावाद् बहुवचनम्, एवमग्रेऽपि द्रष्टव्यम्। पाद० कर्ण० नक्क इति देश्यशब्दो नासापर्यायः, ततो नासिकाछेदनानीत्यर्थः, एवमोष्ठछेदनानि, जिह्वाछेदनानि शीर्षछेदनानि दण्डनानि - व्यापादनानि पीडनानि वा वधादिरूपनिग्रहाणि वा, तथा मुण्डनानिशिरोलोचनानि, उपलक्षणमेतत्, तेनाशेषरोमोत्पाटनमपि द्रष्टव्यम्, क्लिष्टकर्मणां तथैव साफल्यात् । एतदेव प्रपञ्चयति - कर्मणो१. आचाराङ्गे ।।१-५-३।। २ आचाराङ्गे ।।२-१-१-१ ।। सूत्रकृताङ्गे ।।१-५१।। ३ स्थानाङ्गे ।। ३-३ ।। ४ स्थानाङ्गे । । २-१ ।।
७९
-
आर्षोपनिषद्
दीर्णेन प्रकृत्या करणविशेषेण वोदयं प्राप्तेन जीव:तत्कर्मकर्ता, अन्यथा कृतनाशादिदोषानुषङ्गात्, उक्तं च - कर्ता यः कर्मणां भोक्ता तत्फलानां स एव तु इति । उदयफलमेवाह कुट्टनानि - चूर्णनानि, प्रत्यनुभवन् संसारसागरमनुपरिवर्तत इत्यग्रे योगः । तथा पिट्टनानि - वस्त्रादेरिव मुद्गरादिना हननानि, तर्जनम् - शिरोऽङ्गुल्यादिस्फोरणतो ज्ञास्यसि रे जाल्म ! इत्यादिभणनम्, तानि । ताडनम् - आहननम्, तानि । व्यथनानि व्यसनानि वा, यद्वा वधनम् - घातः, तानि । भारवहनानि वा । बन्धनानि रज्जूनिगडादिना संयमनानि, परिक्लेशनानिमहामानसायासाः, अन्द्यते बध्यतेऽनेनेत्यन्दू - शृङ्खला तया बन्धनानि - नियन्त्रणानि एवं निगडबन्धनानि यावज्जीवम् प्राणधारणं यावद् बन्धनानि यावज्जीवबन्धनानि, निगडयुगलैर्हस्तपादादिन्यस्तैः सङ्कोटनम् - सुदुःसहो गात्रसङ्कोचः, मोटनम् दारुणं गात्रभञ्जनम्, तानि । हृदयस्योत्पाटनम् तीक्ष्णशस्त्रेणोत्कीर्य शरीरादपनयनम्, तानि । एवं दशनानां दन्तानामुत्पाटनानि, सन्दंशकादिभिः । उल्लम्बनम् - वृक्षशाखादावुद्बन्धनरूपो मरणान्तः शारीरदण्डः, तानि । अवलम्बनम् - रज्ज्वा बद्ध्वा गर्तादाववतारणम्, कुत्सितमारेण मारणं वा, तानि । घर्षणम् - हस्ताभ्यां चन्दनस्येवं पेषणं महाव्यथावहम्, तानि ।
८०
-
१. स्वरूपसम्बोधने । २. प्रश्नव्याकरणवृत्ती 119अ. ।। ३ औपपातिकवृत्तौ । ४. उत्तराध्ययनवृहद्वृत्ती ।।१२-६७।। ५ यथा श्रीसुपार्श्वनाथचरिते अजओ छज्जीवकायवहणम्मि ।। ५२२ ।। ६. आवश्यकवृत्तौ ।। अ.४।। ७. व्याख्याप्रज्ञप्ती । । ९-३३ ।। ८. समवायाङ्गवृत्तौ । ९. औपपातिकवृत्ती १०. दशाश्रुतस्कन्धवृत्ती ११. आवश्यकवृत्तौ ।