________________
-
७७
न-ऋषिभाषितानि - तदेव कर्मविपाकाद्यभिधानेनोत्पादयति
'जाव ताव जम्मं ताव ताव कम्म, कम्मुणा खलु भो! पया सिया, समियं उवनिचिज्जइ अवचिज्जइ य।' इइ महइमहाकासवेण अरहया इसिणा बुइयं ।।९-१।।
यावत्तावज्जन्म तावत्तावत् कर्म, बीजाङ्कुरवत् परस्परहेतुफलभावात्, एतच्च प्रागुपपादितमेव। अत्र यावदिति वक्तव्ये यद् - यावत्तावदित्यादिभणनं तत् समयपरिभाषया। कर्मणा खलु भोः ! प्रकर्षेण - अन्यथाकर्तुमशक्यविपाकोदयरूपेण जायते इति प्रजा रोगादिविकारलक्षणा स्यात्, यदाह - यदुपात्तमन्यजन्मनि शुभमशुभं वा स्वकर्मपरिणत्या। तच्छक्यमन्यथा नो कर्तुं देवासुरैरपि हि।। अन्यथा स्वजन्यमजनयतोऽसत्त्वप्रसङ्गः, शुद्धनयाभिप्रायेणार्थक्रियाकारित्वलक्षणसत्त्वलक्षणविरहादिति भावनीयम्। अत एवाहुः परेऽपि - कतानं कम्मानं विपाको अस्थि ? हंता अस्थि - इति। ___तच्च कर्म सम्यगितम् - समितम् - पूर्वबद्धकर्मणा बन्धनसङ्घातभावं प्राप्तम्, उपनिचीयते, जं जं समयं जीवो आविसइ जेण जेण भावेण। सो तंमि तंमि समये सुहासुहं बंधए कम्मं - इतिनीत्या प्रतिसमयं बध्यमानकर्मणा पूर्वबद्धस्यात्यन्तमुपचयो भवति, जघन्यतोऽप्यनन्तकर्मप्रदेशानां ग्रहणादित्यभिप्रायः। अपचीयते चं, निज्जरेइ य संततं - इति वक्ष्यमाणत्वात्। १. घ-च-त- जाव जाव । क-ख-ग-ज-जाव तावं । झ-जावता व जम्मं तावता व कम्मं । २. उपदेशमालायाम् ।।२४ ।। ३. क - उवनिवज्जइ अववइज्जइ य महइ । खउवमिविज्जइ अप्पइज्जइ व महइ। ग - उवनिविज्जइ अववदिज्जइ य महइ। घ
७८
- आर्षोपनिषद् - अथैवमवस्थितप्रदेशताप्रसङ्गः, न चेष्टापत्तिः, अनन्तरोक्तस्यालीकत्वाप्तेः, उपचयापचयविरहात्। न च कालभेदात्तत्सद्भावः, सन्ततविशेषणानुपपत्तेः, तच्च वक्ष्यते - संततं बंधए कम्मं निज्जरेइ य संततं - इति । न चोपचारात्तौ भविष्यत इति वाच्यम्, शेषेऽपि तदाशङ्काऽनिवृत्तेरखिलशास्त्रस्यौपचारिकताप्रसङ्गादिति। मैवम्। पल्ले महइ महल्ले- इत्याद्यागमोदितनीत्याऽविरतादेर्बहुबन्धाल्पनिर्जरादिनोपचयादेः सूपपन्नत्वात्, तथा चार्षम् - पल्ले महइमहल्ले कुंभं पक्खिवइ सोधए नालिं। अस्संजए अविरए बहु बंधइ निज्जरे थोवं।। पल्ले महइमहल्ले कुंभ सोधेइ पक्खिवे नालिं। जे संजए पमत्ते बहु निज्जरे बंधई थोवं - इति ।
किमेतदाप्तोदितमन्यथा वेत्याह - इति महतिमहाकाश्यपेनार्हतर्षिणोदितम्। महइमहल्ले इतिवदतिमहत्त्वविवक्षायां प्रस्तुताभिधानं द्रष्टव्यम्।
कम्मुणा खलु भो ! अप्पहीणेणं पुणरवि आगच्छइ हत्थच्छेयणाणि पायच्छेयणाणि एवं कण्ण० नक्क० उद्द० जिब्भ० सीस० दंडणाणि मुंडणाणि, उदिण्णेण जीवो कोट्टणाणि पिट्टणाणि तज्जणाणि तालणाणि वहणाई बंधणाई परिकिलेसणाइं अंदुबंधणाई नियलबंधणाणि जावजीवबंधणाणि नियलजुयलउवनिचिज्जइ अवचिज्जइ य महइ । झ - उवनिचिज्जइ अवचिज्जइ य । इह महइ । त - उवनिविज्जइ अविचिज्जइ य। महइ। च - उवनिच्चिज्जइ अवचिज्जइ य, इह । १. ऋषिभाषिते ।।९-१३ ।। २. श्रावकप्रज्ञप्तौ ।।३५-३७।। धर्मसङ्ग्रहण्याम् ।।७५६७५८।।