________________
ऋषिभाषितानि
१६३
इत्याशयः, उक्तं च गर्भसूच्यां विनष्टायां यथा तालो विनश्यति - इति'। पुनरप्यप्रस्तुताख्यानेन प्रस्तुतं गमयतिमूलसेके फलुप्पत्ती, मूलघाते हतं फलं ।
फलत्थी सिंचए मूलं, फलघाती न सिंचति । । १५- ११ । । प्राग्वत् । पुनः पुनरुदाहरणाद्युपन्यासः पापघाते पराक्रमातिशयापादनार्थमदुष्टः, उपदेशे पुनरुक्तेर्दोषत्वविरहाच्च । अभीष्टविनाशस्य मूलमेवोन्मूल्यमित्यत्र तात्पर्यम्। एतदनभिज्ञानां विपर्यासमाह -
-
दुक्खितो दुक्खघाताय, दुक्खावेत्ता सरीरिणो । पडियारेण दुक्खस्स, दुक्खमण्णं णिबंधई । । १५-१२ ।। दुःखितः - असातवेदनीयविपाकोदयेन कष्टितः, दुःखघाताय - स्वीयदुःखापनयनाय, शरीरिण: - स्वान्यपृथिव्यादिजीवान्, दुःखयित्वा दुःखिनो विधाय दुःखस्य - आत्मीयकष्टस्य, प्रतिकारेण - उक्तप्रकारया चिकित्सया, अन्यम् - अपरम्, दुःखम् - परपीडोत्पादनोत्पादितासात वेदनीयं कर्म, हेतौ फलोपचारात्, निबध्नाति - निकाचनादिनाऽऽत्मीकुरुते। अत एवागमः - एस खलु मारे, एस खलु णरए - इति । परपीडोत्पादनमेव नरकादिदुः खनिमन्त्रणमिति हृदयम् । साक्षि चात्र सार्वम् - तुमंसि नाम सच्चेव जं हतव्वं ति मन्नसि तुमंसि नाम सच्चेव जं अज्जावेयव्वं ति मन्नसि तुमंसि नाम सच्चेव जं परियावेयव्वं ति मन्नसि, तुमंसि नाम सच्चेव जं परिधित्तव्वं ति
१. तत्त्वार्थभाष्यकारिकायाम् ।।२४।। २ ऋषिभाषिते । । २-६ ।।
-
Ashopnisad_2.p65 2nd Proof
१६४
• आर्षोपनिषद् - मन्नसि, तुमंसि नाम सच्चेव जं उदवेयव्वं ति मन्नसि इति । एवं च
दुक्खमूलं पुरा किच्चा, दुक्खमासज्ज सोयती । गहितम्मि अणे पुव्विं, अदइत्ता ण मुच्चइ । । १५ - १३ ।।
पुरा - प्राक्, दुःखमूलम् - दुःखागमहेतुमसातवेदनीयं कर्म, मूलसेके कृत्वा - इत्याद्यनभिज्ञतया दुःखप्रतिकारयत्नेनैव तन्निबध्य, स जीवो दुःखमासाद्य - तत्कर्मविपाकोदयेन कष्टं प्राप्य, शोचते - हा हा ! किमित्यतिदुःसहमिदं दुःखं में समुपस्थितमित्यादि परिदेवनं विधत्ते । न च भृशं शोचयतोऽप्यस्य दुःखनिवृत्तिरित्युदाहरणेनाह पूर्वम् प्राक्काले, ऋणे - उद्धारे, गृहीते - उदञ्चिते सति, अदाय - उत्तमर्णाय सवृद्धि मूलद्रव्यमनर्प्य, ऋणमस्फेटयित्वेति यावत्, सोऽधर्मणो न मुच्यते नैवानृणी भवति, सर्वस्वं विक्रीय, दासीभूयापि वा तदृणं तेन स्फेटयितव्यमित्यभिप्रायः ।
अत्रोपनयः सुगमः, तदुक्तं परैरपि नाभुक्तं क्षीयते कर्म, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम्इति । अन्यत्रापि - पूर्वदेहकृतं सर्वमवश्यमुपभुज्यते - इति । संवादी चात्र सिद्धान्तः कडाण कम्माण न मोक्खु अस्थि - इति । एतदपि प्रागुक्तनीत्याऽप्रतिबद्धसामर्थ्यविषयमवगन्तव्यम्, तपः प्रतिबद्धवीर्याणां प्रदेशोदयमात्र फलत्वात्। उक्तविपर्यासमेव स्पष्टमाचष्टे
-
-
-
१. आचाराङ्गे ।।१-५-५ । । १६४ ।। २. ब्रह्मवैवर्तपुराणे । ।४-८१-५५ ।। ३. महाभारते । ।१८-१२ ।।
-