________________
- ऋषिभाषितानि
णेयव्वं जाव सासतं निव्वाणमब्भुवगता चिट्ठति, णवरं दुक्खाभिलावो ।। १५-४।।
प्राग्वत् । नवरं कर्मस्थाने दुःखाभिलापः कर्तव्यः । अर्थतस्त्वभेद एव । इत्थं च -
पावमूलमणिव्वाणं, संसारे सव्वदेहिणं ।
१६१
पावमूलाणि दुक्खाणि, पावमूलं च जम्मणं । । १५ - ५ ।। संसारे दुक्खमूलं तु, पावं कम्मं पुरेकडं ।
पावकम्मणिरोधाय सम्मं भिक्खु परिव्वए । । १५-६।। प्राग्वत् । पुनरपि प्रतिवस्तूपमया प्रतिबोधयति - सभावे सति कंदस्स, धुवं वल्लीय रोहणं । बीए संवुज्झमाणम्मि, अंकुरस्सेव संपदा ।। १५-७।। यथा कन्दस्य सद्भावे- विद्यमानत्वे सति, ध्रुवम्निश्चितमेव, वल्ल्या : - लतायाः, रोहणम् - पत्राद्युद्गमक्रमेण वर्धनम् । यथा वा बीजे समुह्यमानेऽङ्कुरस्यैव सम्पत् - इति प्राग्वत् । उपनयमाह
सभावे सति पावस्स, धुवं दुक्खं पसूयते ।
णाऽसतो मट्टियापिंडे, णिव्वत्ती तु घडादिणं । । १५ - ८ । । तथैव पापस्य अशुभकर्मणः सद्भावे सति विद्यमानत्वे सति, ध्रुवम् निश्चितमेव दुःखं प्रसूयते,
सद्धेतावन्वयव्यभिचारित्वविरहात् । प्रतिवस्तूपमया व्यतिरेकमाह
-
१. ऋषिभाषिते । । ९/२-३ ।। २. ऋषि० । ।९ / ४, ५ ।। कर्ममात्रस्य पापरूपतापि तत्रैव स्पष्टीकृतेति पापपदार्थोऽपि तदनुसारेणोः । ३. ऋषि० । । २-४ ।।
Ashopnisad_2.p65 2nd Proof
- आर्षोपनिषद् - N मृत्तिकापिण्डेऽसति घटादीनां निर्वृत्तिः स्थासादिक्रमेण निष्पत्तिः, न तु नैव सम्भवति, अपरथा हेतुफलव्यवस्थाविप्लवप्रसङ्गात्, तदाह- नाकारणं भवेत् कार्यं, नान्यकारणकारणम् । अन्यथा न व्यवस्था स्यात् कार्यकारणयोः क्वचित् - इति । निदर्शनान्तरेण स्फुटीकुरुते
सभावे सति कंदस्स, जहा वल्लीय रोहणं । बीयातो अंकुरो चेव, धुवं वल्लीय अंकुरा ।। १५-९।। यथा कन्दस्य सद्भावे सति वल्ल्या रोहणमिति प्राग्वत्' । बीजात्, अप्रतिबद्धसामर्थ्यात् सहकारिसमवधाने सति, अङ्कुरः
१६२
प्ररोहः, भवत्येव । अङ्कुराच्चाप्रतिबद्धसामर्थ्यात् सहकारिसमवधाने सति वल्ली - लता, ध्रुवम् निश्चितम् भवत्येव । अत्रोपनयो भावितार्थः । प्रतिबद्धसामर्थ्यात्तु नैव कारणात्कार्यप्रसूतिरित्याह
-
पावघाते हतं दुक्खं, पुष्फघाए जहा फलं ।
विद्धाए मुद्धसूईए, कतो तालस्स संभवे ? ।। १५-१०।। पापघाते - कर्मक्षये कृते सति, दुःखम् तत्फलात्मकम्, हतम् - विनष्टमेव । अत्रार्थे दृष्टान्तमाह- यथा पुष्पघाते कुसुमविनाशे कृते सति तत एव सम्भाव्यमानोत्पत्तिकं फलं विनष्टमेव, तदुत्पत्तिसम्भावनोच्छेदात् । निदर्शनान्तरेणाचष्टे मूर्धसूच्याम् - गर्भसूच्याम्, विद्धायाम् - विघातमापन्नायां सत्याम्, कुतस्तालस्य ताडवृक्षस्य सम्भवः - अवस्थानम् ? नैव सम्भव १. ऋषिभाषिते ।।१५-७।।