________________
षष्ठः सर्गः]
[३९ विरहिणीव्यथकं शरदागमे कमलिनीवरलाभरसंहितम् । न हि दधावधिगम्य जलाशयं कमलिनी वरलाभरसं हितम् ॥६८।। यो व्यधद्भुवि नतीर्युवतीनां कामराजिवितता न हि मानी । तासु लीनमपि तं हिमकाले कामराजि विततान हिमानी ॥६९।। विटपिनां शिशिरे परितो वनं विदलितं विरहोपहितात्मनाम । प्रतिदिशं हृदयं च मृगीदृशां विदलितं विरहोपहितात्मनाम् ॥७०॥ निरवधि मधुना रसालसालं प्रसवभरेण सिषेविरे द्विरेफाः । निरवधिमधुना रसालसाऽलं विरहिवधूः पिकपञ्चमास्त्रपातैः ॥७१।। एतानृतून्षडपि सोत्सवमात्मसेवाहेवाकपाकनिभृतानभितो निरीक्ष्य । चौलुक्यचन्द्रसचिवोऽथ मुदं रिरंसा
दत्तस्मरच्छविभरां बिभराम्बभूव ॥७२।। इति सिद्धसारस्वताचार्यश्रीबालचन्द्रविरचिते वसन्तविलासनामनि महाकाव्ये
ऋतुवर्णनं नाम षष्ठः सर्गः ॥ पातालं गतपूरस्तदनु खरशिलाभूरभूत् कुम्भिपीठं दिक्कुम्भिव्याजमाशा निजनिजपतिभिर्भूषिताः शालभञ्ज्यः । जैत्र ! त्वत्कीर्तिदेव्याः सुरसदसि जगत्युद्यौः शलाका कुम्भः किञ्च ध्रुवोऽयं ध्वजितसुरसरिद्दण्डति स्वर्गद्दण्डः ॥
D:\chandan/new/bsnta/pm5\3rd proof