________________
३८]
[वसन्तविलासमहाकाव्यम् ॥ यमवतामवतामपि मानसं स्वकमलं कमलं प्रशमश्रियः । व्यकलयत् कलयन् धनुरैक्षवं पिकवच:कवचः कुसुमायुधः ॥५४॥ विरहिणीहृदयानि यदात्मनो न्यदलद् गलयन्त्रशरैः स्वरैः । तदमुना धिगहो कलकण्ठिकाकुलमसममसीमहिमाऽभवत् ॥५५॥ कमलिनी न सकाममसूत्रयत् कमलिनीकलगुञ्जितपुञ्जिता । दमनकोऽपि च सौरभसम्भ्रमी दमनको वशिनां समजायत ॥५६।। स्फुटदशोकपरम्परिकात्मिका भ्रमरधोरणिधूमवती चिता । पथिकवृन्दमदीदहदग्निभाभरचिता रचिता स्मरबन्धुना ॥५७॥ सुरभिणा नवचूतफलच्छिदागसि धृता बत किं शुकचञ्चवः । वनभुवोभ्रममित्यभितो ददुस्तनुमतामिह किंशुकचञ्चवः ॥५८॥ प्रियजनैरुपदीकृतमात्मनः स्थुलकुचा लकुचाख्यमहीरुहाम् । कुसुममण्डनमुद्दधुरुज्झितासमतनूतननूतनभूषणाः ॥५९॥ विदधिरे नवभूतवनं स्तुतिध्वनिभृतं निभृतं कलकण्ठिकाः । मधलिहोऽपि च झङ्कृतिनिमितस्तवकुलं बकुलं परिरेभिरे ॥६०॥ तिलकचम्पकत: स्मितमाधवीकुरबकं रखकन्दलितस्मरा । मधुलिहां ततिरेत्य मधूदकैरपि हि तं पिहितं परितो व्यधुः ॥६१॥ वसुदृशां सुदृशां सुरतस्विदामलकजालकजामनवस्थिताम् । व्यतनुतातनुतापकुल गिलन्द्रुमलयोमलयोऽनिलवीजनः ॥६२।। मलयजालयजालनभस्वति स्फुरति का रतिकार्मणितानना । नवतरं बत रङ्गमुपादधे प्रियजने यजनेन तनोः स्वयम् ॥६३।। सह यता हयतारकुहत्कृतिक्रमरुता मरुताररतेऽबलाः । मलयभूलयभूरुहकाननाज्जनिभृता निभृताः ककुभोऽभितः ॥६४।। समलया मलयाचलवायवो भुवि रताविरताभिमता भृशम् । रतिवरेऽतिवरेण्यपुरस्सरे प्रतिदिशन्ति दिशं प्रशमाम्बुधः ॥६५॥ मनस्विनीभिर्जगिरे प्रियाणामुपासितानामपि कोपिताभिः । वाचः शुचौघाः स्वगिरां विलासमुपासितानामपि कोऽपि ताभिः ॥६६।। असमरसमये नभस्यकाले स्मरललितानि जिगीषवोऽभिलेषुः । असमरसमये नभस्यकाले समघटि सन्तमसं घनोदयेन ॥६७।।
20
D:\chandan/new/bsnta/pm5\3rd proof