________________
[३७
षष्ठः सर्गः]
दिशमपास्य यदस्य महिष्यतो दिशि विवेश परेतपते रविः । तुहिनमेतदहो बत मन्महे वयमतो यमतोऽपि भयङ्करम् ॥४०॥ तृणकुटीसुषिरागतहैमनानिलधुताः सचिवेश्वरवैरिणः । निशि करावरणा रदवल्लकीकणकणाणकणावसरं व्यधुः ॥४१॥ हिमभयादहिमत्विषि जीवितार्थनधिया यमधामनि धावति । स्तनगिरीन्द्रगतं सुदृशामभूदवटगं वटगं च महोऽस्य नु ॥४२।। मधुरझङ्कृतयः नलिनीलतामधु निपीय कवित्वपरा इव । सहसि कुन्दवनीषु विरेजिरे कुसुमितासु मितासु मधुव्रताः ॥४३।। हिमवतोऽस्य ऋतोः सुरभेरपि प्रववृतेऽथ ऋतुः शिशिरोन्तरा । उडुपयोः श्रवणोत्तरसञ्जयोरुरुभयोरुभयोरभिजिद्यथा ॥४४॥ प्रतिदिशं लवलीलवलीधुताद्भुततमालतमालतरूत्तरः । अभिससार ससारसकूजितो धृतलवङ्गलवङ्गलताध्वजः ॥४५॥ विकचकुन्दवनैरधिकाधिकं कुरबकैरवकैरवगन्धिभिः । विरुरुचे शिशिर: सशरस्मरप्रतिभयातिभयान्वितदम्पतिः ॥४६।। ऋतुमशोभयदेतमहर्निशं भ्रमरगायनगीतगुणोदया । प्रविकसन्मुचुकुन्दभवा जने रसकले सकलेऽपि सुगन्धिता ॥४७।। सुरभिजातिषु पुण्यमयं वयं मनसि बालकमेव विदध्महे । तपसि पश्य भवन्ति यदज्रयः शिरसि मानवमानवतामपि ॥४८॥ घुसृणमर्दनतो मसृणस्तना विहितगर्भगृहस्थितयो निशि । मृगदृशः सुरतोत्सवडम्बरे सनिकषा निकषा प्रियमस्वपन् ॥४९।। कुतुकिनः किल फाल्गुनपूर्णिमातिथिमहे समहेशगणा इव । इह मुखेन कवित्वममर्त्यराडिभसितं भसितं व्यकिरन् करैः ॥५०॥ स्फुरति फाल्गुन एष रजोमहः स्फुटमितीव मरुद्भिरुदञ्चितः । दिगबलावदनानि वितस्तरे नवतरो बत रो-रजोभरः ॥५१॥ नरमणी रमणीयतमामथो पृथुयश:सुरभिः सुरभिश्रियम् । क्रमतया मतया समुपस्थितां भृशमलोकत लोकतमोपहः ॥५२॥ अनुवनं दधुराम्रमहीरुहः कुसुमसायकधन्विनिषङ्गताम् । भ्रमरपक्षतिमञ्जुलमञ्जरीलटभरोपभरोपचितश्रियः ॥५३॥
15
20
D:\chandan/new/bsnta/pm5\3rd proof