SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ [वसन्तविलासमहाकाव्यम् ॥ दिगबलापटली सममर्यमा स्मितमुखी पृथुपाण्डुपयोधराम् । अविरलांशुकभाजमशिश्रियद्विकलहं कलहंसकनादिनीम् ॥२६।। सकलमे कलमेदुरगोकुले रसमये समयेऽत्र महीभुजः । सुबलिनो बलिनोपमहीभुजामिव जयाय जयायजनं व्यधुः ॥२७॥ शरदृतौ भुवनान्तरुपेयुषि प्रकृतधोरणिबन्धमुदञ्चिनः । प्रतिदिगुत्सृतवन्दनमालिकाभ्रममुदारमुदारचयन् शुकाः ॥२८।। गजतुरङ्गमशस्त्रभटार्चनव्यतिकरेण महानवमीतिथौ । अपि च दीपदिने नवसम्पदावनिभृतो निभृतोत्सवमादधुः ॥२९॥ सततमिक्षुतलस्थितगोपिका ललितलोलितगीतकलैर्बहिः । मृगकुलान्निजुगोप जिघत्सतः कलमगुल्मवनीमवनीतले ॥३०॥ वपुरि हंसरवानतिपेशलान् स्वरवतोऽपि निशम्य शिखण्डिनः । स्मयमिवाङ्गिनमायतमत्यजन्निजतनूरुतनूरुहकैतवात् ॥३१॥ अयुगपत्रतरूनपरद्विपानिव मदोपमपुष्पसगन्धिनः । इह चुलुक्यनृपद्विपमण्डली क्षरदुदारमदारमदारयत् ॥३२॥ घनहुताशनताडितवारिदावलिपुटस्थपुटाम्बरमूषिका । रजतपिण्डमिवेन्दुमजीजनद् ध्रुवमहीनमहीनयशोरसा ॥३३।। पतितमेघदलस्य समन्ततः पवनमार्गमधूकतरोरिह । असमये कुसुमैरुडुभिस्त्विषा सहसि राजनि राजनितश्चलः ॥३४।। तुहिनमारुतसैनिकसादिताखिलदिगन्तवियोगिजनं ततः । जगति राज्यमजायत हैमनं शुचिरसं चिरसङ्गतदम्पति ॥३५॥ दिनपतेरपि कान्तिमनूष्मयन् दिनसमूहमहो समकोचयत् । विषयिणोऽमदयच्च मनस्विनीजनमयं नमयंस्तुहिनानिलः ॥३६॥ गजपटैघुसृणाङ्गविलेपनैः समुपगूढवधूकुचमण्डलैः । विषयिभिर्विजितो जडिमेत्यहो स्वमहसा स्म हसन्ति हसन्तिकाम् ॥३७।। विषयिणामिव पुण्यललावधूविविधभोगमयं ददती फलम् । गुरुतरा क्रमतोऽत्र हिमानिकाभरजनी रजनी समजायत ॥३८॥ पदपतत्प्रियचाटुपदैरपि स्खलितजक्रुधि येन भृशायितम् । व्यनमयत्तमहो किमु यामिनी घनहिमा न हि मानवतीजनम् ॥३९॥ 15 D:\chandan/new/bsnta/pm5\3rd proof
SR No.009570
Book TitleVasant Vilas Mahakavyam
Original Sutra AuthorBalchandrasuri
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages211
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy