________________
10
षष्ठः सर्गः]
[३५ त्रिदशचापमुदस्य तडिद्गुणं रतिपतेरिव चापभृतो भटाः । ववृषुरम्बुमुचः पथिकावलैः शिरसि तारसिताः शरधोरणीः ॥१२॥ अनुवनं वपकन्दलकैतवाद्विशदलिङ्गतयाऽऽविरभूत् स्वयम् । घनपतत्तरवारिहता खगावलिरहोऽलिरहो धनुषा रुषा ॥१३॥ विरहिणीहृदयस्य विभेदिनः पिशितखण्डसमूह इवारुणः । दिशि दिशि क्षितिपीठमधिस्फुरंस्त्रिदशगोपगणोऽपगणो बभौ ॥१४॥ वपुरपास्य वियुक्तदशासवः स्वदयितानिव वीक्षितुमभ्रमन् । प्रतिदिगन्तमुषर्बुधकीटका अधिमहत्तमसंतमसं निशि ॥१५॥ सपदि याः पदि यातमपि स्मयादसुहितं सुहितं न शिवा व्यधुः । स्वयमिता यमिता नभसा घनैरहसि ता हसिता इव गर्जिभिः ॥१६॥ प्रहतमर्दलमण्डलधोकृतिध्वनितबन्धुरगर्जिभिरम्बुदाः । शिखिकलं कुतकेकमनेकशः पृथुमुदारमुदारमनीनृतन् ॥१७|| लिखितवर्णमयं भुवनत्रयीविजयपत्रमिव स्मरवादिनः । निजतरुस्थमराजत केतकं सिततमं ततमञ्जुमधुव्रतम् ॥१८।। अभिनवस्फुटितस्फुटमालतीमधुरगन्धिनि वाति नभस्वति । प्रतिदिशं विवशा मधुपावली द्रुतमहीनतमभ्रममभ्रमत् ॥१९॥ समदद१रकूजितपूजिता हरितरोमविकारनिरन्तरा । जलदकान्तगृहीतगिरिस्तनी भृतरसा तरसा रुरुचे रसा ॥२०॥ कुटजयूथकयोः स्मितपुष्पयोरुभयतोऽपि गमागमसम्भ्रमी । परिमलातिशयं भ्रमरव्रजो न हि विवेक्तुमलं तुमलं दधत् ॥२१॥ स्मरनृपस्य सितातपवारणभ्रममियेष शिलिन्ध्रपरम्परा । अपि च सैन्यरजोऽनुकृति दधुः स्मितकदम्बकदम्बकरेणवः ॥२२॥ अथ जरेव पयोबलघातिनी जलमुचां पलितङ्करिणी शरत् । प्रतनुतौपयिकं सरितामथो जगति सङ्गतिसम्मदमासदत् ॥२३॥ प्रियतमा यतमानपरिग्रहप्रगुणितागुणितात्मरतागमाः । रसविधेः सविधे कमितुर्गता मुमुदिरे मुदिरे दिवि दीव्यति ॥२४॥ मदकलोक्षकलोऽक्षतपद्मिनीशुचितटाकतटाकसितच्छदः । कमलशालितशालितलावनिः स समयोऽजनि यो जनितोद्यमः ॥२५।।
20
D:\chandan/new/bsnta/pm5\3rd proof