________________
10
षष्ठः सर्गः ॥ षडपि शङ्खविशृङ्खलदोर्बलप्रलयकालममात्यमुपासितुम् । तमृतवोऽथ समाययुरुज्ज्वलस्मितरुचस्तरुचक्रसुमव्रजैः ॥१॥ भ्रमरगुञ्जितपुञ्जितपाटलाकुसुमदुन्दुभिजृम्भितमङ्गलः । ऋतुरभूत् पुरतः पटुरुष्णताभरचयं रचयंस्तरणित्विषाम् ॥२।। वपुषि कान्तनखच्छुरितक्रमभ्रमकरं मकरन्दकणान् किरन् । सुखयति स्म विकम्पितचम्पकाघ्रिपवन: पवनः प्रमदाजनम् ॥३॥ मधुपराजिभिरेत्य समन्ततो मधुपराभिरवाक्कृतकर्णिकः । विचिकिलो मकरन्दजलैदधौ विचिकिलोपचितां वनमेदिनीम् ॥४॥ मलयजं सितमंशुकमिन्दुरुक्कदलिकागृहमम्भसि खेलनम् । विषयिणामिह पाटलिमल्लिकासुमनसो मनसो मुदमादधुः ॥५॥ सुरभयन्मरुदङ्घ्रिपमूलभूवलयपुष्टिकृते वनपालवत् । नवपरागभरं नवमालिकासुमनसा मनसामिव पञ्जरान् ॥६॥ समुदिते मुदितेनकरैरपामसहनैः सह नैऋतमारुते । खरवधूरवधूमितचित्तभूरसमया समया प्रियमापतत् ।।७।। मलयजद्रवतीमितमज्जसा प्रियतमोरसि काचन कामिनी । स्वकुचमण्डलमैन्दवमण्डलोज्ज्वलमहोऽशिशिरं शिशिरं दधे ॥८॥ प्रियजनव्यजनानिलवीचयः शिशिरकुम्भपयोऽपि च गोस्तनी । परिणताम्रफलानि सितेक्षवोऽप्यसुमतां सुमतां पदवीमगुः ॥९॥ उपवनाश्रमवासपर: प्रियाकुचकमण्डलुधारिकरः कृती । मलयजार्जुनितो विषयी जनः किमु बताप स तापसतामिह ॥१०॥ जलदकालनृपद्विरदा रदायितबकीततयोऽथ नभोङ्गणे । सगलगर्जितमेत्य घनाघनाः पदमदुर्दिनदुर्दिनहेतवः ॥११॥
20