________________
सप्तमः सर्गः ॥
10
वनान्तलक्ष्मीमयमार्त्तवीमगात्क्रमादमात्यैलविलो विलोकितुम् । विलोकनं नाम विलोक्यवस्तुनो विलोचनानां फलमामनन्ति यत् ॥१॥ नदद्विभूषाजयडिण्डिमैः स्मरं प्रबोधयन्त्यो युवचित्तशायिनम् । समीरवीचीचलचीरपल्लवास्तदाऽचलन् वर्त्मनि चारुलोचनाः ॥२॥ विलोलदो:कन्दलरत्नकङ्कणक्वणो वधूनामधिकं व्यराजत । धनुष्कटङ्कार इवैकधन्विनः स्मरस्य लक्ष्यीकृतकामिचेतसः ॥३॥ सरोषहुङ्कारपदैरिव क्रमा नितम्बिनीनां मणिनूपुरक्वणैः । पुर: प्रयातो दयितान् वितेनिरे वलन्मुखान्मन्थरगामिनोऽपि च ॥४॥ तदाऽचलदुर्गभुवां नतभ्रुवां नितम्बपद्यामधिरुह्य मन्मथः । मनःस्थितः कुण्डलमारवर्त्मना विव्याध धुन्वन् कबरीमयं धनुः ॥५॥ सखीरपास्यानुपदं समागता विपक्षनाम्ना दयितेन जल्पिता । अवस्थिता तेषु पदेष्ववाङ्मुखी निरश्वसीत् कापि सबाष्पमङ्गना ॥६॥ समागता पृष्ठत एव कामिनो विलम्ब्य कण्ठे मृदुबाहुयैकया । तदाहितोत्कण्टकपाणिपाणिजप्रसक्तवामस्तनिका पराययौ ॥७॥ विकूणयन्ती वदनं पदे पदे नखवणाा जघनस्य काचन । विबाधते ते किमिति प्रहासिनं जघान लीलाकमलेन कामिनम् ॥८॥ कयाचिदन्वागतायाशु हासतो निरुद्धदृक् कोऽपि कराङ्गलीदलैः । तदन्यसञ्जागसि कातरोऽन्तरा विचिन्त्य मूकत्वमुदर्कमाददे ॥९।। निजोत्तरीयाञ्चलरुद्धलोचन: कयापि तत्कण्ठविलम्बया पथि । नितम्बबिम्बाधिकभारया प्रियो न तैलयन्त्रीवृषतां न लम्भितः ॥१०॥ परस्परांसप्रहितैकदोलतौ प्रियापती वर्त्मनि कौचिदीयतुः । वसन्तलक्ष्मीमवलोकितुं दिवो भुवं प्रयातौ रतिमन्मथाविव ॥११॥
20