________________
5
३२]
[वसन्तविलासमहाकाव्यम् ॥ अथ शङ्खवधे कृतप्रतिज्ञो गुलगोत्रप्रभवो भटाधिनाथः । सचिवं प्रणिपत्य भूणपालः प्रचचाल प्रधनाय बाहुशाली ॥१६॥ गिरिगुरुतुरगोत्तमाधिरूढः करतलनिस्तलनतितोरुकुन्तः । रिपुनृपसुभटैः स कान्दिशीकैर्विवलितकन्धरमीक्षितः कथञ्चित् ॥९७॥ कटकटसुभटः सपत्नकालः समिति विसर्पति सैष भूणपालः । इति मुखरमुखा मखाशनास्तं नभसि गताः समदर्शयन् सुरीणाम् ॥९८।। देवे सत्यपि जागरूकमहसि श्रीवस्तुपाले पुरीमेतां भक्तुमहंयुरत्र सहसा यः साहसादागमत् । भो भोः शङ्खनृपः क्व स क्व स इति व्याहारधीरः पुरस्तं तं सैष जघान शङ्खनृपतिः सोऽस्मीति यो योऽवदत् ॥९९।। प्रहसितवदनः पुनर्बभाषे गुलकुलभूषणमेष भूणपालः । कथयत किमु सिन्धुराजपत्नी प्रसभमसङ्ख्यतमानसूत शङ्खान् ॥१००॥ अपलपसि हहा मुधैव शङ्ख ! स्वमधिकवल्लभजीवित त्वमेवम् । कुशजलतरलाद्विजीवितव्यात्तव यश एव नृदेव ! सम्मतं नः ॥१०१।। अयमयमहमस्मि सत्यशङ्खो द्रुतपदमेहि यदि स्मयस्तवास्ति । इति भणितिपरस्य लाटभर्तुळधित किलाधिमुखं गुलः स्वकुन्तम् ॥१०२।। आयान्तं भुवनसमक्षमेतमुच्चैराक्रष्टुं मुखविवरेण जीवितव्यम् । खड्गेनाच्छिददथ भूणपालकुन्तं शङ्खोऽयं करमिव जीवितेश्वरस्य ॥१०३।। एकोऽपि शङ्खनिशितासिलताप्रहाराज्जातो द्विधा समरसीमनि भूणपालः । पञ्चत्वमाप्य सहसा जगतां समक्षं भेजे ततस्त्रिदशतामिति कौतुकेन ॥१०४।। तदिति भुवनपालोदन्तमाकर्ण्य कर्णज्वरभरकरमन्तःकोपसाटोपवक्त्रः । सविषयमपि शङ्ख चूर्णतां नेतुमुर्वीतलधवलनहेतोर्वस्तुपालश्चचाल ॥१०५।। दृष्ट्वात्मानं ध्वस्तसेनं समन्तादायान्तं च स्फारसेनं वसन्तम् । अङ्गी पश्यत्यङ्ग ! भद्राणि जीवन्नेवं ध्यायन्नश्यति स्माशु शङ्खः ॥१०६॥ स्थैर्येणाजनि सिन्धुराजतनुभूयुद्धेषु विन्ध्याचलो दोर्दण्डेऽस्य विशालवंशविभवे रेवाऽसिरेवाऽभवत् । उत्तालप्रतिकूलपादपचमूनिर्मूलनोच्छृङ्खलं जातं निर्मितसादयादवदवच्छेदकच्छिदे यत्पयः ॥१०७॥
D:\chandan/new/bsnta/pm5\3rd proof