________________
5
10
151
20
25
२८]
[ वसन्तविलासमहाकाव्यम् ॥
स्वीकृतेऽवनितलेऽत्र विधाता त्वत्प्रभुर्यदधिकारिणमन्यम् । नाम नामकरणं तदजातस्याङ्गजस्य पुरतः कुरुतां सः ॥४०॥ मण्डलाधिपतिमूर्त्तिसनाथं स्वर्णदाम चरणस्य वरं तत् । तद्दुनोति यदयं यदुगुप्तौ पादयोर्निगडबन्धनमूहे ॥४१॥ निर्मदामकृत यादवसेनां नर्मदाविपुलरोधसि शङ्खः । दूत ! रे तदिति जल्पसि नैतद्बन्धनानि यदयं समवा ॥४२॥ क्षत्रियाः समरकेलिरहस्यं जानते न वणिजो भ्रम एषः । अम्बडो वणिगपि प्रधने किं मल्लिकार्जुननृपं न जघान ॥४३॥ दूत ! रे वणिगहं रणहट्टे विश्रुतोऽसितुलया कलयामि । मौलिभाण्डपटलानि रिपूणां स्वर्गवेतनमथो वितमि ॥४४॥ निर्विलम्बभुवनभ्रमणेन श्रान्तिविभ्रममिवाप्य यदाज्ञा । विश्रमश्रियमशिश्रियदुच्चैरष्टदिक्पतिकिरीटतरीषु ॥४५॥ अद्य वीरधवलः क्षितिपेन्द्रो लज्जते स भुवि केशवमूर्त्तिः । आगते त्वयि यदि प्रधनान्तादङ्घ्रिकर्षणमहं वितनोमि ||४६ ॥ युग्मम् || सिन्धुराजतनयोऽसि स एव त्वं यदि द्रुतमिहैहि महीयान् । गर्व एष भुजयोस्तव गेहेनर्दिनः क इव नर्दविशङ्खः ॥४७॥ एतदाशु पुरतो निजभर्तुर्वाचिकं मम निवेदय गत्वा । प्राघुणस्य तव भर्त्तुरिदानीमायुधेस्तु जगती रुचिता या ॥४८॥ युग्मम् || निर्ययाविति वसन्तसभाया निर्मदः सपदि शङ्खविशिष्टः । आहतः सुभटदृष्टिभिरुल्काबान्धवीभिरतिकोपवशेन ॥ ४९ ॥ वस्तुपालसुभटाः पृथुलाभप्रेङ्खितभ्रुकुटिभङ्गतरङ्गाः । चुक्षुभुः प्रलयकाल इवाम्भोराशयो धरदलं दलयन्तः ॥५०॥ केऽपि मङ्क्षु नमितोन्नमितांसाः पाणिभिः प्रहतवक्रितदोषः । उत्सृतैर्विदलिताङ्गदरत्नैः कोपपावककणैरिव रेजुः ॥५१॥ केऽपि कोपपरतन्त्रतयाग्रे स्तम्भयष्टिमवहस्तनिपातैः । खण्डशो व्यधुरुदग्रबलादालानदण्डमिव मत्तकरीन्द्राः ॥५२॥ उद्धतैरपि च केऽपि शिरोजैर्लोचनैरपि च शोणमहोभिः | कोपपावकभवैरिव धूमैर्विस्फुलिङ्गशकलैरिव रेजुः ॥५३॥
D:\chandan/new/bsnta / pm 5 \ 3rd proof