SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 २६] [ वसन्तविलासमहाकाव्यम् ॥ यत्र याति नृपवर्त्मनि साक्षादागते मघवतीव बभूवुः । जीव नन्द विजयस्व चिरायेत्युच्चकैर्मृगदृशां पुरि वाचः ||१२|| तत्तथा विजयसेनमुनीशादेशपेशलमतिः सचिवेन्द्रः । धर्मकर्म विततान यथासौ सम्प्रतेरपि जिगाय यशांसि || १३|| काव्यकेलिरसिकः कविवृन्दावर्जनं समतनिष्ट तथासौ । मुञ्जभोजयशसां ध्रुवमोजः सञ्चयो भुवि यथा स वृथाऽभूत् ॥१४॥ लूणसाकनृपतेरथ साकं मारवैः समभवद्विगृहीतिः । तत्र वीरधवलोऽपि बलोपक्रान्तवैरिनिगमः स जगाम ॥ १५ ॥ स्तम्भतीर्थनिधनेन धनायन् शङ्ख इत्यभिधया समयेऽस्मिन् । लाटदेशनृपतिर्भृगुकच्छादुच्चचाल चलदश्वबलश्रीः ॥१६॥ मा प्रणश्य रिपवः प्रविशन्तु क्वापि सत्वरमितीव तदश्वाः । सर्वतः पिदधुरद्रिगुहादिक्काननावटनभांसि रजोभिः ||१७|| वाजिराजिखुरखातरजोभिः जृम्भिते तमसि केतनहस्तैः । मार्गमामृगयमाणमिवोच्चैः शङ्खभूपतिबलं प्रससार ॥१८॥ दुर्दिनं क्षितिपरागभवं तत् कुम्भिनो मदजलैः शमयन्तः । चक्रुरात्मपरयोरनुकूलं लभ्यते न गुरुता परवृत्त्या ॥१९॥ प्राहिणोदपि च दूतमयं श्रीवस्तुपालसचिवस्य पुरस्तात् । सोऽपि निर्भयमुपेत्य चतुर्द्धा स्वामिवाचिकमुवाचः वचस्वी ||२०|| वर्धसे सचिवराज ! तवाद्य प्राघुणः समरनिर्घृणबाहुः । शङ्खभूपतिरुपैति चिरेणोत्कण्ठितस्त्वयि गुणश्रवणेन ॥२१॥ के तव स्तुतिपराः सचिवेन्दो ! भूतले वद वसन्त ! न सन्तः । यस्य शङ्खनृपतिः स्वयमेवोपैति हृष्टहृदयो मिलना ॥२२॥ त्वं कृती त्वमसि धन्यतमस्त्वं पुण्यवानसि जने सचिवेन्द्र ! | अद्य यस्य गुणिनो गुणगृह्यः शङ्खभूपतिरुपेष्यति गेहम् ||२३|| अद्य वीरधवलः सबलोऽपि त्वत्प्रभुः सुबहुभिर्मरुभूपैः । वेष्टितः खरमरीचिरिवाब्दैर्दृश्यतेऽपि न जयः क्व नु तस्य ||२४|| चाहमाननृपतिस्तु दिनेऽस्मिन् क्वागतः क्वचन लभ्यत एषः । तं प्रवेश्य कुरु राज्यममन्दानन्द ! नन्दति चिरं समयज्ञः ॥ २५ ॥ D:\chandan/new/bsnta / pm 5 \ 3rd proof
SR No.009570
Book TitleVasant Vilas Mahakavyam
Original Sutra AuthorBalchandrasuri
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages211
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy