________________
पञ्चमः सर्गः ॥
स्पष्टमापदवटे निपतन्ती हन्त दिक्करिकरैरिव साक्षात् । मन्त्रियुग्मनुपयुग्मकरैस्तैरुद्धृता धरणिरष्टभिरेव ॥१॥ वीरपूर्वधवलः किल ताभ्यां भूपतिः शुचितमः सचिवाभ्याम् । काञ्चनाचल इवार्कशशिभ्यां काञ्चन श्रियमशिश्रियदेषः ।।२।। सर्वतः प्रतपनो वितमस्कं विक्रमाकलितभूधरमौलौ । तेजपालसचिवोऽरुणलीलामाप वीरधवलस्य खरांशोः ॥३॥ तेजपालसचिवस्य वहस्य न्युञ्छनं भवतु विष्टपमेतत् । उद्दधार जिनमन्दिरमालां मालवीयदलितामभितो यः ॥४॥ दर्शनानि षडपि प्रसभं दुःकालसङ्कटगमिष्यदसूनि । अन्नदानकलयाऽतिसुकालोऽजीवयज्जिनमतैकरतो यः ॥५।। वीरवीरधवलक्षितिनाथादेशतस्त्रिविधवीरवरेण्यः । वस्तुपालसचिवस्तु विदम्भः स्तम्भतीर्थनगरं तदयासीत् ।।६।। श्रीवसन्तसमयेन समन्तादेव काननमिवाहितशोभम् । स्तम्भतीर्थनगरं तदशेषं दिद्युते भृतपुनर्नवसम्पत् ।।७।। पापिभिर्यदधिकारिभिरन्यैस्तामसैरिव हतश्रि बभूव । भास्वतेव भुवनं वसुभाजा सम्भृतश्रि तदनेन जजृम्भे ॥८॥ यत्कुकर्ममलिनीकृतमासीत् कूटधीभिरधिकारिभिरग्रे । शासनेन सुधियोऽस्य विशुद्धि प्राप गाङ्गपयसेव पुरं तत् ॥९॥ यत्कुधीभिरभितः कलिकालस्थानपुम्भिरिव भुक्तमशेषम् । तत्र मन्त्रितिलके जयकेलि भ्राजते कृतयुगाचरणेन ॥१०॥ पूजयां सततमास तथोच्चैर्दर्शनानि वसनैरशनैश्च । एषु शश्वदहमेव मतोऽस्येत्यब्रवीदिह यथा भुवि को न ॥११॥
D:\chandan/new/bsnta/pm5\3rd proof