________________
२४]
[वसन्तविलासमहाकाव्यम् ॥ किं ब्रूमो बहुधा मुधा वयममी घोरालधीलीलया ऽमुष्मिन् शासति गुर्जराधिपगिरा श्रीवस्तुपाले भुवम् । मारि: सारिषु नाम वारिषु जडप्रख्यातिरासीदृशं
कुग्राहप्रसरः पयोधिषु तथा रोधो मुनीषु ध्रुवम् ॥५४॥ 5 इति सिद्धसरस्वताचार्यश्रीबालचन्द्रविरचिते वसन्तविलासनामनि महाकाव्ये
मन्त्रिगुणवर्णनो नाम चतुर्थः सर्गः ॥ यातश्चेन्ननु यातु कल्पविटपी स्वर्गाद्रिदुर्गावनौ नैवायाति दृशोः पथि क्वचिदहो मा यातु चिन्तामणिः । तस्थौ कामगवी दवीयसि दिवो देशान्तरे तिष्ठतु मापठेऽस्ति यतः परोपकरणव्यग्रो वसन्तात्मजः ॥
10
D:\chandan/new/bsnta/pm5\3rd proof