________________
[२१
चतुर्थः सर्गः]
कलावत: सुवृत्तस्य सहानक्षत्रशालिनः । अजातलाञ्छनस्यास्य कथमस्तु समः शशी ॥१२॥ कुर्वतोऽनन्यसामान्यं स्वगोत्रं निजसौरभात् । अद्विजिह्वाश्रयस्यास्य न तुल्यो मलयद्रुमः ॥१३॥ शीतलस्य मृदोः पादान् खनतः प्रतिभूभृताम् । कथमुच्चतमस्यास्य गङ्गापूरः समो भवेत् ॥१४॥ भूरिधारासहस्रेण भूलोकमुपकुर्वतः । अकल्मषमुखस्यास्य कथमस्तु समोऽम्बुदः ॥१५।। बिभ्रतोऽन्तर्जिनं देवं शरण्यस्यावनीभृताम् । अलोलप्रकृतेरस्य सरस्वानपि नो समः ॥१६।। इतश्च लाटभूपालभुक्तौ भूमीविभूषणम् । स्तम्भतीर्थमिति ख्यातमास्तेऽतीन्द्रपुरं पुरम् ॥१७।। यदुपान्ते श्रितोत्सङ्गामङ्गमङ्गेन पीडयन् । महीमहीनमणितां सेवते सरितां पतिः ॥१८।। विवृतोभयकूलोरुः प्रसृत्वरपयोधरा । यत्र प्रसूते सत्पोतान् कृमिलेवाङ्गना मही ॥१९॥ नानाद्वीपान्तरायातसांयात्रिकविनिर्मितैः । भाण्डकूटैर्यदाकीर्णं क्रीडशैलैरिव श्रियः ॥२०॥
........। स्फातिनौवित्तकैः कीटकोशकैरिव काननम् ॥२१॥ सकेशैरपि निष्केशैर्धीवरैरप्यधीवरैः । राजते यन्नरैश्चारुविग्रहैरप्यविग्रहैः ॥२२॥ सदाकरजपातारः स्फारकेलिमहा बहिः । यत्रोद्यानगणोऽन्तश्च व्यरुचन् मानवा नवाः ॥२३॥ एकदा वीरधवलः प्रसह्यासह्यविक्रमः । तद्विगृह्य समादत्त लङ्कामिव रघूद्वहः ॥२४॥ श्रीवीरधवलस्योर्वीधवलस्य निदेशतः । तत्पुरं वस्तुपालस्तु चिरकालमपालयत् ॥२५॥
D:\chandan/new/bsnta/pm5\3rd proof