________________
तृतीयः सर्गः]
[१९ श्रुत्वा वचस्तदिति मन्त्रिपुरन्दरस्य भूमीपतिः पुलककोरकिताङ्गयष्टिः । दिष्ट्यैतयोः स्वयमुदारमुदा सुवर्णमुद्राञ्चितं करसरोजयुगं चकार ॥८१।। अजनि कनकमुद्रा साक्षरश्रेणिसान्द्रे करसरसिजयुग्मे मन्त्रियुग्मस्य तस्य । इदमुपचितशालं गूर्जरक्षोणिलक्ष्मी
कुलगृहमिति निन्ये शासने पट्टिकेव।।८२॥ इति सिद्धसारस्वताचार्यश्रीबालचन्द्रविरचिते वसन्तविलासनामनि महाकाव्ये
श्रीकरणपदलाभो नाम तृतीयः सर्गः ॥ गौरी रागवती त्वयि त्वयि वृषो बद्धादरस्त्वं युतो भूत्या पुण्यजनः सुहृज्जन तव व्यानक्ति शक्तित्रयम् । इत्थं कौतुकमीश्वरोऽपि सचिव त्वं जैत्रसिंह ! क्वचित् कामध्वंसनमातनोषि न रुचिं धत्से द्विजिह्वेषु च ॥१॥
10
D:\chandan/new/bsnta/pm5\3rd proof