________________
१८]
[वसन्तविलासमहाकाव्यम् ॥ अथात्मनः श्रीकरणाधिनाथौ कर्तुं कृती तौ पुरतो निवेश्य । कुशाग्रबुद्धी कुशलानुशास्तिपूर्वं जगादेति जगज्जयी सः ॥६९।। मूर्तिर्गुणान् शंसति वो गरिष्ठान् कुलप्रतिष्ठां विनयक्रमश्च । शास्त्रज्ञतां गीरवगीतवीतं वयो वयं तु स्तुमहे महेच्छौ ॥७०।। न यौवनेऽपि स्मरघस्मरत्वं न वैभवेऽपि क्वचनाविवेकः । न दुर्जनेऽप्यार्जवविप्लवो यत्तन्निर्मितौ वा विधिना नवेन ॥७१॥ पुरारिविस्तारितभूमिभारसम्भारसम्भारितयोरिदानीम् । साहाय्यहेतोः पितृपुत्रयोर्नी हन्तोपधुर्यौ भवतां भवन्तौ ॥७२।। पित्रा मम त्रासितवैरिणा या बन्दीकृता दीर्घभुजेन लक्ष्मीः । षड्भिर्गुणैस्तामभितो नियम्य चलामपि स्थेमयतां भवन्तौ ॥७३।। एतां विनेता समुदीर्य वाचं वाचंयमोऽजायत जातकीर्तिः । श्रीवस्तुपालस्तु निरस्तदोषः वाक्प्राञ्जलः प्राञ्जलिरित्युवाच ॥७४।। स सेवकः सेवकलः कुलीनो विलीनदोषः सुकृती च देव ! । प्रसन्नगम्भीर ! भवादृशेन संभाष्यते सुप्रभुणा य एवम् ॥७५॥ व्यवस्यतां विश्वजयैकवीरशरीरभाजां भवति त्वदाभः । स्वामी यदि प्राच्यतपोभिरेव पुंसोऽन्तरं यः सदसच्च वेत्ति ॥७६।। विज्ञाप्यसे किन्तु विशेषविज्ञ ! युगत्रयी धन्यतमा जगाम । कलिस्त्वसौ यत्र न सेवकेषु कृतं न नाथेषु कृतज्ञता च ॥७७।। भूभुजो द्रविणदृष्टयोऽधुना सेवकास्तदनुवृत्तिवृत्तयः । तेऽपि तेऽपि कृतदुष्कृतोदया ही परत्र निपतन्ति रौरवे ॥७८॥ अत्यर्थमर्थमुपढौकिमाद्रियन्ते तं च प्रभूतगुणितं पुनरर्पयन्ति । न्यस्ताः पदे समचिते गमिताश्च मैत्री शब्दाः कवेरिव नृपस्य नियोगिनः स्युः ॥७९॥ न्यायं यदि स्पृशसि लोभमपाकरोषि कर्णेजपानपधिनोषि शमं तनोषि । सुस्वामिनस्तव धृतः शिरसा निदेशस्तन्नूनमेष मयकाऽपरथाऽस्तु भद्रम् ॥८०।।
20
D:\chandan/new/bsnta/pm5\3rd proof