________________
तृतीयः सर्गः]
[१५ इहासतां हन्त परे परस्ताद्दूषन्मयानप्यवनीभृतो यः । उत्थाप्य संस्थापयति स्म धर्मान्निर्मापितानेकविहारमूर्त्या ॥२७॥ निर्वीरिकावित्तपराङ्मुखोऽपि निर्वीरिकारिक्षितिवित्तमादात् । यस्त्यक्तसप्तव्यसनोऽपि सप्तराज्याङ्गसङ्गव्यसनी बभूव ॥२८।। रणाङ्गणे जाङ्गलकुङ्कणेशकण्ठच्छिदासादितपाटवेन । बल्लालमुल्लालयति स्म खड्गदण्डेन यः कन्दुकलीलयैव ॥२९॥ यस्य द्विषत्क्षत्रकुलापकीर्तिभृङ्गीभृतो दिग्वनितावतंसान् । यशःप्रसूनप्रसरानसूत करालवाले करवालवल्ली ॥३०॥ तत्र धुसद्वारविलासिनीनामुद्वीज्यमाने चमरावलीभिः । बलीयसामेकनिदर्शनं भूसुभ्रूधवोऽभूदजयाभिधानः ॥३१॥ क्षरन्मदाम्भोभिरतीव तुफ़ैश्चलगिरीन्दैरिव कुञ्जरेन्द्रैः । यस्याभृत प्राभृतमुद्बलस्य गलन्भिया जाङ्गलभूमिपालः ॥३२॥ वैकुण्ठनाकाध्वनि यत्कृपाणपट्टे बभुः पुष्करमण्डलानि । हताहितानां व्रजताममुत्र सदा पदानीव करम्बितानि ॥३३॥ आलेख्यशेषत्वमिह प्रयाते धात्री पपौ द्वैधनयीद्धसाराम् । श्रीमूलराजः शिशुनापि येन म्लेच्छाधिपोऽकल्प्यत पांशुकल्पः ॥३४॥ बालेऽपि तस्मिन् कुतुकादिवाझं नीते कृतान्तेन तदीयबन्धुः । कुलं रिपूणां हृदि भीमदेव कुर्वन्नृपेन्द्रोऽजनि भीमदेवः ॥३५।। व्यर्थीकृताशेषविपद्विशेषस्तथा जजृम्भे करपल्लवोऽस्य । यथाथिसार्थेन वृथैव धातुर्विकल्पिता कल्पतरुप्रवृत्तिः ॥३६॥ भोक्तुं शिशुत्वादवनीमनीशेऽमुष्मिन् दिगन्तावनिमण्डलीकाः । विटा इवैतामुपभुञ्जते स्म नारीमिवारीणविकारभाजः ॥३७॥ सत्कञ्चुकी क्षेमचिकीर्नृपस्य दृष्ट्वा पराभ्यासपरां महेलाम् । ररक्ष तामक्षतवृत्तमर्णोराजश्चलुक्यो धवलाङ्गजन्मा ॥३८।। जजृम्भिरोधाः किल मण्डलीकाः कृतव्यलीका भुवि गूर्जरेन्दोः। तानेष नि:शेषयति स्म शूरः शूरस्तमांसीव नवप्रतापः ॥३९। किं तत्र चित्रं धवलैर्यशोभिर्जगत्त्रयं यो धवलीचकार । विद्वेषिणो यत्कलुषान्वितेने तेनेदमुन्मीलति कौतुकं नः ॥४०॥
15
200
25
D:\chandan/new/bsnta/pm5\3rd proof