________________
5
१४]
[वसन्तविलासमहाकाव्यम् ॥ वेलावनालीषु निवासिनीनां यद्वेषिभूपालविलासिनीनाम् । निःश्वासबाष्पप्रसरैः सरस्वान् शोषं च पोषं च सहाभ्युपैति ॥१३॥ दुर्योधनमापतियोधनश्रीः भीमस्ततो भीम इवातिभीमः । महीमहेलापतितां प्रपेदे दुष्कर्मकिर्मीरकुलान्तकारी ॥१४॥ अलं विषो विजिगीषुरीषदप्यत्र मात्राधिकमात्मनो न । विमानितोऽवन्तिमहीमहेन्दुरितीव भीमस्य भुजेन भोजः ॥१५॥ यशःप्रतापेन्दुपतङ्गनेत्रः श्रिया समं सङ्गरसागरान्तः । कृष्णः कृपाणोऽस्य भुजाभुजङ्गतल्पस्थितः कल्पयति स्म केलिम् ॥१६॥ तस्मिन् सुरस्त्रीवदनारविन्दरोलम्बलीलायितमादधाने । तदङ्गजो गूर्जरराज्यलक्ष्मीकर्णावतंसत्वमवाप कर्णः ॥१७।। विलोक्य नारीजनमोहनं यं निजप्रियायामभिशङ्कमानः । प्रवेशयन्स्वाङ्गमिमामुमेश: कैलासशैलाग्रमपि प्रपेदे ॥१८॥ सङ्ग्रामवासौकसि कान्तिरोमाञ्चिता सकम्पासिलतावधूटी । यत्पाणिसङ्गात् प्रहतेभकुम्भमुक्तागणस्वेदकणानुवाह ॥१९॥ आत्मप्रियासम्भृतशङ्कमिन्द्रमस्मिन् सहस्राक्षयति क्षितीन्द्रः । अजायतावारिधिवधितारिदोःश्रीजयः श्रीजयसिंहदेवः ॥२०॥ चक्षुर्घटीसङ्घटितैकनासावंशाग्रनिष्पातिश्रिरश्रुतोयैः । माहेश्वरो यः प्रतिपक्षयोषिद्वक्षोजलिङ्गेषु ददौ गलन्तीम् ॥२१॥ धाराधवं कोपकडारवर्क पराभवोन्मीलननीलकायम् । विधाय यः पञ्जरभाजमात्मभुजश्रियः केलिशुकीचकार ।।२२।। यो योगिनीपीठमकुण्ठशक्तिर्जित्वोज्जयिन्याः स्वपुरं निनाय । किञ्चापरं बर्बरमप्यनैषीद्वेतालमुत्तालभुजिष्यभावम् ॥२३॥ तस्मिन्नहश्चुम्बितवैबुधस्त्रीविधूतदो:कन्दलकङ्कणानाम् । क्वाणैः सदा तुष्यति पुष्यति स्म कुमारपालो भुवमेकवीरः ॥२४॥ रामादपि न्यायपराऽस्य वृत्तिभृगाधिपादप्यतिचण्डमोजः । रतिप्रभोरप्यतिचारु रूपं वचः सुधातोऽप्यभवत् प्रधानम् ॥२५।। केदारसोमेश्वरदेवधाम्नी मनीषिमुख्योऽयमतीव जीर्णे । उद्धृत्य दो:स्तम्भसमुद्धृतक्ष्मालोकः स लोकद्वयमुद्दधार ॥२६।।
20
D:\chandan/new/bsnta/pm5\3rd proof