________________
10
१२]
[वसन्तविलासमहाकाव्यम् ॥ समन्ततो गोपुरवेधनिर्यन्मार्गारकैराप्तपयोधिनेमिः । भ्रष्टस्य चण्डांशुरथादिवोर्वीचक्रस्य यन्नाभिरिवावभाति ॥४१॥ वासोऽधरं वारिधरं वसान: प्रकाशमाकाशमथोत्तरीयम् । सुधासिताङ्गः सुमहाननल्पः शालोऽस्ति जिष्णुप्रणयी यदीयः ॥४२॥ यद्वप्रमौलौ कपिशीर्षमाला मान्त्री ठकारालिरधोमुखीव । करोति भूम्नोद्धतकन्धराणामधोमुखानि द्विषतां कुलानि ॥४३॥ अङ्गीकरोति प्रतिबिम्बिताङ्गः शालो यदीयः परिखापयोन्तः । वैकुण्ठशय्यार्थमुपागतस्य वाढिभ्रमेणाहिपतेरभिज्ञाम् ॥४४॥ निक्षिप्य यस्यान्तरतीवलोलां विदन्नसावात्मसुतां विवेकी । एतद्बहिःस्थः परिखामिषेण संरक्षतीवाम्बुनिधिः सदैव ॥४५॥ यस्याग्रतो दुर्लभराजराजसरो विशालं स्फटिकोज्जवलाम्भः । क्रोडीकृतैतत्प्रतिरूपमुच्चैरादर्शलीलामुररीकरोति ॥४६।। विस्तीर्णशालं च पुरं तदुच्चैविशालपालीवलयं सरश्च । पयोधिवेलावनमेखलाया भूसुभ्रवः कुण्डलतां प्रयाति ॥४७|| भोगावतीतोऽप्यमरावतीतोऽप्यतीव रम्यां वहतोऽस्य लक्ष्मीम् । वीचीकरोदञ्चितफेनवीतैनिरुत्थितानीव सर: करोति ॥४८।। विनिजिताशेषपुरश्रियोऽस्य पुरः पुरोभागगतस्तडागः । माहात्म्यमम्भोजमुखैरसङ्ख्यैः स्तौतीव भृङ्गीरुतगीविलासैः ॥४९॥ निःशेषान्यपुरीपराभवकरीमालोक्य लक्ष्मीमिति स्रष्टा यस्य पुरस्य मूर्द्धनि मुदा कोट्टारमस्थापयत् । अत्युत्तुङ्गमहीभुजङ्गसुभगप्रासादरूपेण चिद्रू
पेणाथ कथं तदेकवदनप्रागल्भ्यतो वर्ण्यते ॥५०॥ इति सिद्धसारस्वताचार्यश्रीबालचन्द्रविरचिते वसन्तविलासनामनि महाकाव्ये
राजधानीवर्णनो नाम द्वितीयः सर्गं ॥ दानं मे जनिकृत्तदीयजनकः श्रीजैत्रसिंहाख्यया विख्यातस्य विभोः करोऽपरमिह श्रीदक्षिणो दक्षिणः । तन्मित्राणि सरोरुहाणि कुरुते दैन्यास्पदं सोऽयमित्यन्तर्जातरुषेव यस्य यशसा निस्तेजितश्चन्द्रमाः ॥
15
25
D:\chandan/new/bsnta/pm5\3rd proof