SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ 10 १०] [वसन्तविलासमहाकाव्यम् ॥ अभिमन्य यत्र निशि वासगृहे शयिता पराङ्मुखतयापि वधूः । स्फटिकाग्रभित्तिगतबिम्बतया कृतसम्मुखेव दयिते दयितम् ॥१३॥ यदगारमौलिमणिभित्तितलप्रतिबिम्बितो निशि निशारमणः । कृतमण्डनस्य दयितैः प्रमदात् प्रमदाजनस्य मुकुरीभवति ॥१४॥ प्रतिरूपकाणि मणिभित्तिमये प्रसमीक्ष्य नास्ति रह इत्यहह ! । मदनातुरेऽपि दयिते दयिता त्वरते न यत्र निशि केलिकृते ॥१५॥ कुमुदोपहारविशदच्छविभिर्विकसद्गवाक्षनयनैः परितः । हरिदङ्गनाजनमुखानि सुखं परिवीक्ष्यमाणमिव यद् गुरुचे ॥१६॥ अतितुङ्गवेश्मशिखरप्रकरस्खलनानिपातभयतः परितः । निशि यत्र यान्ति विलसत्तडितो धृतदीपिका इव घना नभसि ॥१७॥ प्रतिरूपकैः कुतकमेकमहो प्रिययोविचित्रसुरतप्रिययोः । प्रतिभाति यत्र मणिभित्तिमयं करणैः सचित्रमिव वासगृहम् ॥१८॥ सुखसौरभभ्रममिलन्मधुपाः परितो भुजङ्गपरिरम्भयुजः । पणयोषितो मलयशैललता इव यत्र भान्ति धृतपल्लवकाः ॥१९॥ मणिवेदिकास्फलितमृक्षपतिं कुलटाजनोऽत्र परिवीक्ष्य रुषा । दशनार्दितौष्ठमभिहन्ति कराहतिभिर्ममैष कुलशत्रुरिति ।।२०।। हरमूर्युपासितसुपर्वसरित्क्रमणं मणीभुवि निशीह शशी । श्रयते सतीचरणरेणुमजाः कथमप्यसौ स्वमकलङ्कचिकीः ॥२१।। मुनिदेशनावचनमन्त्रपदैविकलीकृतोऽपि सततं मदनः । इह पादनूपुरझणज्झणितैः प्रमदाजनेन सकलीक्रियते ॥२२॥ रतिमन्दिरागरुजधूमदलैः सदलीकृतैरिव तमःपटलैः । दलितेन्द्रनीलदलनीलदलैरिह पादपैरुपवनानि बभुः ॥२३॥ हरनेत्रसंहृतचरोऽप्यचिरादनुजीवितो यदबलानयनैः । अभिषिच्यतेऽयमरघट्टघटीकलशोदकैरुपवनीभिरजः ॥२४॥ इह राजवर्त्मनि गजेन्द्रघटामदवारिभिः प्रशमिते रजसि । कुसुमोपहारति हरीन्द्रचमूमुखपातिफेनगुलिकानिकरः ॥२५॥ यदुदारशालकपिशीर्षमिलन्मणिमण्डलीपरिवृतं परितः । तिलकायते वसुमतीयुवतीवदनेऽन्तरा नृपतिरत्नयुतम् ॥२६।। D:\chandan/new/bsnta/pm5\3rd proof
SR No.009570
Book TitleVasant Vilas Mahakavyam
Original Sutra AuthorBalchandrasuri
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages211
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy