________________
द्वितीयः सर्गः ॥
अणहिल्लपाटकमिति प्रथितं पुरमस्ति निर्जितमहेन्द्रपुरम् । कलहायते न सह शारदया कमलाऽत्र वासरसलोभवती ॥१॥ सुरसाकेतनपटैर्यदहो धृतधूपधूमकलिकाक्षरकैः ।। भुवि दत्तपत्रमिव भाति जगत्पुरमण्डलीविजयकेलिकृते ॥२॥ अतिशायिता निजनिजेशमतान्यधिरोपितुं सुरगृहाणि मिथः । इह घण्टिकाक्वणितराज्यपदैर्ध्वजहस्तकैश्च विवदन्ति किल ॥३॥ सुरसद्महेममयदण्डकरोन्नमिताम्बरस्य बत यस्य बभुः । उपरिक्षरत्सुरसरित्सलिलप्रकटाः कटध्वजपटाः परितः ॥४॥ उपरि स्थितेन भवता जगती कथमुद्धृतेयमतिवासुकिना । इति यत्र भूपमभिधातुमना इव भूभृतः प्रचुरचैत्यमिषात् ॥५।। इह शातकुम्भमयकुम्भरुचा तिमिरं निरासि किम तापयसे । इति यत्र चैत्यनिवहः परतः कुरुते रविं तरलकेतुकरैः ॥६॥ हरताण्डवाभिनयमातनुतेऽगरुधूपधूमगजचर्मधरम् । यदुदारदेवकुलमौलिचलद्ध्वजपाणिभिः सह लयैः शतशः ।।७।। कृतिभिः कृतं सुकृतसेवधयः प्रकटा इवात्र कटरे कलशाः । सुरसद्ममूर्द्धसु विभान्तितमां पवनोल्लसद्ध्वजभुजङ्गयुजः ।।८।। प्रतिबिम्बिताः स्फटिकभूमितटे सुरसद्मनां तरलकेतुपटाः । ग्रसनाय पन्नगधिया मिलतां दलयन्ति चञ्चुमिह सर्पभुजाम् ॥९॥ प्रियपाणिभिर्ध्वजविलोलतमैरुपभज्यमानविभवा विबभुः । सुरसद्महेमकलशा इव यन्मृगलोचनाजनकुचाः सुरुचः ॥१०॥ समयज्ञ एव मलिनोऽपि तमःप्रसरः सदा यदनुचारिपदम् । इह कामिनीवदनशीतरुचामुररीकरोति कबरीमिषतः ॥११॥ मणिकुट्टिमास्फलितमृक्षगणं प्रसमीक्ष्य यत्र निशि भीरुजनः । त्रुटितात्महारगुलिकाभ्रमतो हृदयं निभालयति हस्ततलैः ॥१२॥
15
D:\chandan/new/bsnta/pm5\3rd proof