________________
प्रथमः सर्गः]
द्विजिह्व ! किं खादसि विश्वलोकमेकं खलानां कुलमेव खाद । विश्वास्य विश्वानि यदेकजिह्वतया भवत्कृत्यममी भजन्ते ॥२६॥ सतां सकाशेऽपि सदा वसन्तोऽसन्तो न सन्तोषकृतः परेषाम् । भवन्त्यमी चन्दनसङ्गिनोऽपि काकोदरा लोकदराय किं न ॥२७।। खरा इवामी मुखराः प्रकामं वामीभवन्तोऽवकरैकशीलाः । महात्मनां काव्यपुरप्रवेशे प्रवृत्तिविघ्नाय भवन्ति निघ्नाः ॥२८॥ महाकवीनां कविताविलासा वैफल्यमायान्त्यविशेषविज्ञे । किं नाम बाधिर्यवति प्रकुर्युः कर्णामृतं वेणुविजृम्भितानि ॥२९॥ न जानते ये कवितारहस्यं तेषां कवित्वानि न किञ्चिदेव । मुधैव मुग्धस्य पुरो विदग्धवराङ्गनाविभ्रमचेष्टितानि ॥३०॥ प्रौढिप्रकर्षात् कविता पुराणमुल्लङ्गयन्ती क्रममचितैव । रसातिरेकात् पुरुषायितानि वितन्वती कस्य मुदे न कान्ता ॥३१॥ प्रसत्तिमाधुर्यवती सदोजा: सुजातसौन्दर्यनिधानभूता । मनोहरालङ्कृतिवजितापि शय्यां गता वाग्लटभाङ्गनेव ॥३२॥ क्षरत्ययत्नैकविधेयमेका वाणी रसं गूर्जरवाणिनीव । हहा महाराष्ट्रवधूरिवान्या कठोरभावा हठसाध्यमेनम् ॥३३॥ गी: कापि कालागुरुवद्विगृह्य गृह्येत सौगन्ध्यमवन्ध्ययत्नैः । अन्या तु जातीस्रगिवोपभोग्या सौरभ्यसम्भारवती सुखेन ॥३४।। किं तेन येनैव कधीरधीतेऽधीतेन किं तेन यतो न काव्यम् । काव्येन किं तेन न यत्परेषां रेखां विधत्ते दृषदीव चित्ते ॥३५।। वशीकरोति त्रिदशान् प्रसूते यशांसि दत्तेऽभिमतां समृद्धिम् । कल्पद्रुचिन्तामणिकामधेनुचैतन्यमूर्तिः कविता कवीनाम् ॥३६॥ यत्रास्ति तत्रैव गतं सतां स्यात् कीत्त्य कृतं देवकुलादिवस्तु । काव्यं तु विष्वक् प्रसरत्प्रसूते यशांसि विश्वेषु विशारदानाम् ॥३७।। सदा चिदानन्दसमृद्धिहेतुरध्यात्ममार्गो न पर: कवित्वात् । त्रिकाललोकत्रयदर्शनाय सिद्धाञ्जनं नापरमस्ति किञ्चित् ॥३८।। न जायते लक्षणमन्तरेण तदेकताना तु विनाशमेति । कृपाणधाराव्रतवत् कवीनां सुदुष्करा कापि कवित्वरीतिः ॥३९॥
200
D:\chandan/new/bsnta/pm5\3rd proof