________________
४
]
5
[वसन्तविलासमहाकाव्यम् ॥ त एव जाताः कृतिनस्त एव त एव जीवन्ति महीमहेन्द्राः । येषां गुणैः कार्मणिकैः कवित्ववैयग्र्यवन्तः कवयो भवन्ति ॥१२॥ शीलेन तुष्यन्ति महीपतीनां न भूरिदानैः कवयः कदापि । वाल्मीकिमुख्यैः किमु किञ्चिदात्तमास्ते महीन्दो रघुनन्दनस्य ॥१३॥ कुर्युः कुराजन्यसमाजतल्ले कथं निवासं कविराजहंसाः । यत्र श्रुतिक्रोडविलोडिनोऽमी मण्डूकनादा इव भाण्डवादाः ॥१४॥ किं कार्यमार्यैः कविभिः कुभूमीभुजां विटाटोपविटङ्कितानाम् । किं गर्तकोलैकधना निषादा निषादिसंवर्गणमाद्रियन्ते ॥१५॥ गोपा विगोपाय कवित्वरीतेरेते भवन्त्येव च विज्ञचित्ताः । कण्ठोपकण्ठोचितमाप्य माल्यं वनौकसः किं न विनाशयन्ति ॥१६॥ आवर्जितोच्चैःशिरसोऽपि वाचः कवेर्न नीचेषु परिस्फुरन्ति । प्रकाशिताकाशादिशोऽपि भासः किं भूमिगेहेषु विशन्ति भानोः ॥१७।। श्रीखण्डशाखी तरुषु ग्रहेषु पूषा प्रसूनेषु सहस्रपत्रम् । पेयेषु पाथः पुरुषेषु साधुः प्रजापतेः सच्चरितानि पञ्च ।।१८।। काव्याश्म सन्तः कुकवेरपीह विदूषणीकृत्य भृशं दिशन्ति । न किं सुधास्वादु पयो विधाय क्षाराम्बुधेरम्बुधराः किरन्ति ।।१९।। काव्यारविन्दानि महाशयानां सुवृत्तबन्धानि सुकोमलानि । दोषाकराक्रान्तिनिमीलितानि स्फूर्ति न मित्रेण विना लभन्ते ॥२०॥ सन्तो वसन्तोपमवृत्तयोऽमी जयन्तु ये पल्लवयन्ति भूयः । विद्वेषिभिः फाल्गुनवेषिभिनिष्पत्राकृतं सूक्तिलतावितानम् ॥२१।। महाय॑तामल्पगुणान् द्विजिह्वोपरोधभाजोऽपि नयन्ति सन्तः । स्वसौरभेण प्रसरत्प्रभेण श्रीखण्डवृक्षा इव निम्बमुख्यान् ।।२२।। विश्वं विवस्वानिव निष्कलङ्काः सदोषमप्युद्धृतदोषमेके । कलङ्किनोऽन्ये तु शशीव शश्वद्विदोषमप्यादधते सदोषम् ॥२३।। द्राक्षासदृक्षां कवितां कवीनामास्वाद्य ये वातकिनो वराकाः । सञ्जातहृन्मत्सरसन्निपाता न पावकाचीर्णपदं विदन्ति ॥२४॥ मलीमसाः पक्षयुगेऽपि केऽपि काका इवामेध्यधियो वराकाः । कवित्वकर्पूरवनी: कवीनामतीव सौरभ्यवतीद्विषन्ति ॥२५।।
15
20
D:\chandan/new/bsnta/pm5\3rd proof