________________
प्रथमः सर्गः ॥
श्रीकान्तनाभिप्रभवाननेन्दोः कुन्दोज्ज्वला कान्तिरिवातनोतु । सरस्वती वः कवितावितान्तकुमुद्वतीमन्वहमद्वितीयाम् ॥१॥ चेतोऽञ्चलं चञ्चलतां विमोच्य सङ्कोच्य पञ्चापि समं समीरान् । पश्यन्ति यन्मूर्द्धनि शाश्वतश्रि सारस्वतं ज्योतिषरुपास्महे तत् ॥२॥ ज्योतिस्तडिद्दण्डवती सुषुम्णाकादम्बिनी मूनि यदाभ्युदेति । विशारदानां रसनाप्रणाली तदा कवित्वामृतमुद्गृणाति ॥३॥ कश्मीरवासव्यसना सनाऽपि सरस्वती पुण्यवशादुपेत्य । वसत्यवश्यं कविताविलासरूपेण चिद्रूपमुखाम्बुजेषु ॥४॥ विश्वत्र विश्वेऽत्र विशारदेभ्यः परोपकारी न परोऽस्ति कश्चित् । ये काव्यपीयूषरसै रसायाः पतीनतीतानपि जीवयन्ति ॥५।। सर्वस्वदानैरपि भूमिपालाः कथं कवीनामनृणा भवन्तु । यतो युगान्तेप्यविनाशिकीर्तिशरीरमेते वितरन्त्यमीषाम् ॥६॥ नामापि रामादिमहीपतीनां विज्ञोऽपि कोऽज्ञास्यत भूतलेऽस्मिन् । असूत्रयिष्यन्कवयश्चरित्रं न चेदमीषामुदयन्मनीषाः ॥७॥ स्फुरन्ति दिव्यानि पदानि येषां येषां च न म्लायति कीर्तिमाल्यम् । येषां क्रिया सिध्यति चेतसैव भवन्ति देवाः कवयो न किं ते ॥८॥ त एव भूपाः प्रययुः प्रसिद्धि ये वाचि विस्तारमगुः कवीनाम् । अनेकशो गाथकगीतिगृह्या मह्यां श्रियः केलिमया बभूवुः ॥९॥ उद्यानपाला इव कीर्तिवल्लीवनं कवित्वामृतसारणीभिः । सिञ्चन्ति येषां कवयः कथं ते भवन्त्यपूज्या भुवने नृदेवाः ॥१०॥ छायामयन्ते निरपायमेके परे परं पल्लवमुल्लुलन्ति । आस्वादयन्त्यन्यतरे फलानि मार्गद्रुमाणामिव सत्कवीनाम् ।।११।।
15