________________
वस्तुपालसुकृत्यप्रशंसा
धर्मः शर्मनिबन्धनं तनुमतां धर्मः कुकर्मद्रुमप्लोषे तत्क्षणमाशुशुक्षणिरिति श्रुत्वा गुरूणां गिरः । तत्तस्य स्थितये वसन्तसचिवः पृथ्व्यामथाकारयद्धर्मस्थानततिं पुरेषु गिरिषु ग्रामेष्वरण्येषु च ॥ प्रत्यद्रि प्रतिपत्तनं प्रतिपुरं श्रीवस्तुपालः कृती धर्मस्थानपरम्परां यदकरोत् तद्युक्तमूहामहे येनैतद्ध्वजहस्तसाटकमरुद्वीचिं विना कः क्षमस्तत्कीर्त्तेर्भुवनभ्रमश्रममपाकर्त्तुं समन्तादपि ॥ आशाराजसुतेऽत्र दुर्युगमहाकल्पे समुज्जृम्भिते मर्यादामवधूय कीर्त्तिजलधिः क्षोणीमुदप्लावयत् । तत्तत्कारितचारुचैत्यपटलीचञ्चत्पताकापटव्यूहव्याजवपुः पिपर्त्ति गगनाभोगं यदूर्मिव्रजः ॥
[ वसन्तविलास - सर्ग १४ / श्लोक १-२-३]