________________
परिशिष्टम् [१] श्रीवस्तुपालप्रबन्धः ॥]
[१०९ भवेत् । परं किं कुर्मो धात्रा हताः स्मः । ततः श्रीनरचन्द्रसूरिभिर्मलधारिभिरभिहितं मन्त्रीश्वर ! यथा त्वं सचिवेषु तथाऽत्र देशे प्रधानं राजसु सिद्धराजो व्यजयत । स मालवेन्द्रं जित्वा पत्तनमागतो मङ्गलेषु क्रियमाणेष्वपाठीद्यथा
मा स्म सीमन्त्रिनी कापि जनयेत् पुत्रमीदृशम् ।
बृहद्भाग्यफलं यस्य मृतमातुरनन्तरम् ॥५६॥ तस्मान्न सर्वेऽपि नृणां मनोरथाः पूर्यन्ते । श्रीनरचन्द्रसूरिभिराशीर्दता
तवोपकुर्वतो धर्मं तस्य त्वामुपकुर्वतः ।
वस्तुपाल ! द्वयोरस्तु युक्त एव समागमः ॥५७॥ इति । अथ रात्रौ तन्मयतया नाभेयपूजाध्यानदानपूजाः । तदा कवयः पठन्ति
ये पापप्रवणाः स्वभावकृपणा: स्वामिप्रसादोल्बणास्तेऽपि द्रव्यकणाय मर्त्यभषणा जिह्वे भवत्या स्तुताः । तस्मात् त्वं तदघापघातविधये बद्धादरा साम्प्रतं
धर्मस्थानविधानधर्षितकलिं श्रीवस्तुपालं स्तुहि ॥५८॥ अपरस्तु- सूरो रणेषु चरणप्रणतेषु सोमो वक्रोऽतिवक्रचरितेषु बुधोऽर्थबोधे ।
नीतौ गुरुः कविजने कविरक्रियासु मन्दोऽपि च ग्रहमयो न हि वस्तुपालः ॥५९॥ अन्यस्तु- श्रीभोजवदनाम्भोजवियोगविधुर मनः।
श्रीवस्तुपालवक्रेन्दौ विनोदयति भारती ॥६०॥ इतरस्तु- श्रीवासाम्बुजमाननं परिणतं पञ्चाङ्गलीछद्मतो
जग्मुर्दक्षिणपञ्चशाखमयतां पञ्चापि देवद्रुमाः । वाञ्छापूरणकारणं प्रणयिनां जिद्वैव चिन्तामणि
जर्जाता यस्य किमस्य शस्यमपरं श्रीवस्तुपालस्य तत् ॥६१॥ सर्वत्र लक्षदानम् ।अष्टाह्निकायां गतायां श्रीऋषभदेवं गद्गदोक्त्या मन्त्र्यपृछत् ।
त्वत्प्रासादकृते नीडे वसन् शृण्वन् गुणांस्तव । सङ्घदर्शनतुष्टात्मा भूयासं विहगोप्यहम् ॥६२॥ यद्दाये द्यूतकारस्य यत्प्रियायां वियोगिनः ।
यद्राधावेधिनो लक्षे तद्धयानं मेऽस्तु ते मते ॥६३॥ एवं ससङ्घः सचिवश्चलितः । मरुदेवाशिखराग्रे यावत्कियदपि याति तावच्छ्रमवशविगलत्स्वेदक्लिन्नगात्रवसान् कियतो मालिकान् पुष्पकरण्डभारितशिरसोऽपश्यत् । पृष्टास्ते कथमुत्सुका इव यूयम् । तैर्विज्ञप्तं देव ! वयं दूरात् पुष्पाण्यहार्म । सङ्घः किल शत्रुञ्जयशिखरेऽस्ति, प्रकृष्टं मूल्यं लप्स्यामहे । तत्पुनरन्यथा वृत्तं, सङ्घश्चलितः, तस्मादभाग्या वयम् । इति तेषां दैन्यं दृष्ट्वा मन्त्रिणाऽभाणि । अत्रैवस्थीयतामूर्बेक्षणम् । तावता पाश्चात्यं सर्वमापतितम्। श्रीवस्तुपालेन स्वकुटुम्बं सङ्घश्चाभण्यत, यथा भो धन्याः ! सर्वेषां पूर्णस्तीर्थपूजाभिलाषः ? । लोकेनोक्तं पूर्णः । मन्त्र्याह किमपि तीर्थमपूजितं स्थितम् । लोकः प्राह प्रत्येकं सर्वाणि तीर्थानि पूजितानि ध्यातानि ।मन्त्रिमहेन्द्रःप्राह-यद्विस्मृतं तन्न जानीथ यूयं, वयं स्मारयामः । सङ्को वदति किं विस्मृतम् । मन्त्री
D:\bsnta-p.pm5\2nd proof