________________
१०८]
[वसन्तविलासमहाकाव्यम् ॥ तज्ज्ञात्वा रत्नो विपुलसामग्र्याऽभिमुखो गत्वा मन्त्रीशं स्वगृहे बहुपरिकरं भोजयित्वा परिधाप्योचे । एवमेवं शङ्खादेशो मे, गृहाणेमम् । मन्त्र्याह न वयं परधनार्थिनः पिशुनाच्छङ्खसत्तां ज्ञात्वा तं गृहीष्यति स्वयं मन्त्री, तस्मात् स्वयमेव ददामीति ।अपिमा शङ्किष्ठाः, निर्लोभत्वादस्माकमास्माकप्रभूणां चेत्युक्त्वा विरते मन्त्रिणि, रत्नेन गदितम् । देव ! मद्गृहावस्थानमस्मै न रोचते । ततः किं क्रियते गृहाणैव । ततो गृहीतो मन्त्रिणा शङ्खः । तत्प्रभावोऽनन्तः । शनैः सङ्घः श्रीशत्रुञ्जयतलहट्टिकामाप । तत्र ललितासर:प्रासादादिकीर्तनानि पश्यन् प्रमुदितः ससङ्घः सचिव: आरूढः शत्रुञ्जयाद्रिम् । सविवेकभावं च तत्र मन्त्री वृषभं वन्दते । तदा काव्यपाठः
आस्यं कस्य न वीक्षितं क्व न कृता सेवा न के वा स्तुतास्तृष्णापूरपराहतेन मनसा के के च नाभ्यर्थिताः । तन्त्रान्तर्विमलाद्रि नन्दनवनाकल्पैककल्पद्रुम !
त्वामासाद्य कदा कदर्थनमिदं भूयोऽपि नाहं सहे ॥५५॥ अथाचारितसत्रमेरुध्वजारोपणेन्द्रपदाचिरञ्जनादीनि कर्तव्यानि विहितानि । देवेभ्यो हैमानि आरात्रिकतिलकादीनि दत्तानि । कुङ्कुमकर्पूरागुरुचन्दनकुसुमपरिमलमिलदलिकुलझङ्कारभारपूरितमिव गगनमभवत् । गीतरासध्वनिभिर्दिक्कुहराणि अभ्रियन्त । पूर्व मन्त्रिश्रीउदयनदत्ता देवदायाः सर्वेऽपि सविशेषाः कृताः । देवद्रव्यनाशनिषेधार्थं चत्वारि श्रावककुलान्यद्रौ मुक्तानि । अनुपमा दानाधिकारिणी । तस्याः साधुभ्यो दानानि ददत्याः किल महति वृन्दे पतता घृतकडहट्टकेन क्षौमाण्यभ्यक्तानि । तदा याष्टिकेन कडहट्टकभृते साधवे यष्टिप्रहारलेशो दत्तः । मन्त्रिण्या देशनिर्वासनं समादिष्ट । रे ! न वेत्सि यद्यहं तैलिकपत्नी कान्दविकी वा स्त्र्यभविष्यम् , तदा प्रतिपदं तैलघृताभिषङ्गान्मलिनान्येव वासांसि अभविष्यन् । एवं तु वस्त्राभ्यङ्गो दर्शनप्रसादादेव स्यात् । य इदं न मन्यते तेन नो न हि कार्यमेवेत्युक्तम् । अहो ! दर्शनभक्तिरिति ध्वनितं सर्वम् । एकदा मन्त्रीश्वरो नाभेयपुर आरात्रिके स्थितोऽस्ति दिव्यधवलवासाश्चान्दनतिलको दिव्यपदकहारभूषितोरःस्थलः । सूरीणां कवीनां श्रावकश्राविकानां च ततिः । तिलकं तिलकोपरि पुष्पस्त्रक् पुष्पस्त्रगुपरि । तदा सूत्रधारणैकेन दारवी कुमारदेव्या मातुर्मूतिर्महन्तकाय नवीनघटिता दृष्टौ रुदितं च । प्रथममश्रुमात्रं, ततोऽव्यक्ततरो ध्वनिः, ततो व्यक्ततरः । सर्वे तटस्थाः पृच्छन्ति । देव ! किं कारणं रुद्यते । हर्षस्थाने को विषादः ? । श्रुतशील इव नलस्य, उद्धव इव विष्णोः, अभय इव श्रेणिकस्य, कल्पक इव नन्दनस्य, जाम्बक इव वनराजस्य, विद्याधर इव जयन्तराजस्य, आलिग इव सिद्धराजस्य, उदयन इव कुमारपालस्य, त्वं मन्त्री वीरधवलस्य । विपद्भीताः पर्वता इव सागरं त्वामाश्रयन्ति भूपाः, तार्येणेव पन्नगास्त्वया हताः सपत्नाः पृथिवीपालाः, चन्द्रायेव चकोरास्तुभ्यं स्पृहन्ति स्वजनाः, हिमवत इव गङ्गा त्वत्तः प्रभवति राजनीतिः, भानोरिव पद्मास्तवोदयमीहन्ते सूरयः, विष्णाविव त्वयि रमते श्रीः, तन्नास्ति यन्नास्ति ते । ततो मन्त्रिणोक्तं दुःखमिदं यन्मे भाग्यसङ्घाधिपत्यादिविभूतिर्मातृमरणादनन्तरं सम्पन्ना । यदि तु सा मे माता इदानीं स्यात् तदा स्वहस्तेन मङ्गलानि कुर्वत्यास्तस्या मम च मङ्गलानि कारयतः, पश्यतश्च लोकस्य, कियत् सुखं
१. वस्तुपालकृतादिनाथस्तोत्रे श्लोक-९, नरनारायणानन्दकाव्ये पृ०६४ उपर्यस्ति ।।
D:\bsnta-p.pm5\2nd proof