________________
१०२]
[वसन्तविलासमहाकाव्यम् ॥ स्वयं बहुपरिच्छदो गोध्रानगरं प्रविवेश । अष्टादश कोटी: हेम्नां कोशम् , अश्वसहस्राणि चत्वारि, मूटकं शुद्धमुक्ताफलानां, दिव्यास्त्राणि, दिव्यवसनानि, सर्वं जग्राह । घूघुलस्थाने आत्मीयं सेवकं न्यास्थत् । चलितो मन्त्री, गतो धवलक्ककं, दर्शितो घूघुलः । वीरधवलेन तत्कज्जलगृहं तद्गले बद्धं, शाटिका वण्ठैः परिधापिता । तदा घूघुल: स्वदन्तैर्जिह्वां खण्डयित्वा मृतः । जातं वर्धापनकं धवलक्कके । श्रीवीरधवलेन महत्यां सभायामाकार्य श्रीतेजःपालः परिधापितः । प्रसादपदे भूरि भूरि ददे । कवीश्वरे सोमेश्वरे च दृक् सञ्चरिता । ततः सोमेश्वरदेवः प्राह
मार्गे कर्दमसङ्कुले जलभृते गतशतैराकुले खिन्ने शाकटिके भरेऽतिविषमे दूरं गते रोधसि । शब्दैनैतदहं ब्रवीमि सततं कृत्वोच्छ्रितां तर्जनी
मीदृक्षे विषमे विहाय धवलं वोढुं भरं कः क्षमः ॥३०॥ विसृष्टा सभा । मिलितौ वस्तुपाल-तेजःपालावेकत्र । कृताः कथाश्चिरम् । तुष्टौ द्वौ मन्त्रयेते स्म । धर्म एव धनमिदं दत्ते । धर्मे एव व्ययनीयम् । ततः सविशेषं तथैव कुरुतः । ततः कविना केनाप्युक्तम्
पन्थामेको न कदापि गच्छेदिति स्मृतिप्रोक्तमिव स्मरन्तौ ।
तौ भ्रातरौ संसृतिमोहचौरे सम्भूय धर्माध्वनि सम्प्रवृत्तौ ॥३१॥ अथ वस्तुपालः शुभे मुहूर्ते स्तम्भतीर्थं गतः । तत्र मिलितं चातुर्वयं, दानेन तोषितं सर्वम् । तत्र सदीकनामा नौवित्तकः । स च सर्ववेलाकूलेषु प्रसरमाणविभवो बद्धमूलः अधिकारिणं नन्तुं नायाति, प्रत्युत तत्पाद्वेऽधिकारिणा गन्तव्यम् । एवं बहुकालो गतः । पूर्व मन्त्रीन्द्रस्तं भट्टेनोवाच अस्मान्नन्तुं किमिति नागच्छसि ? । स वक्ति न नवेयं रीतिः, प्रागपि नागच्छामि, यत्तु स्यान्नूनं तव तत्पूरयामि स्थानस्थः । तच्छ्रुत्वा मन्त्री रुष्टः कथापयामास पुरुषो भूत्वा तिष्ठः, शास्मि त्वां दुर्विनीतम् । ततस्तेन वडूआख्यवेलाकूलस्वामी राजपुत्रः पञ्चाशद्वंशमध्यस्थखादिरमुशलस्य च्छेदने खड्गेन प्रभुः, प्रभूतसैन्यत्वात् साहणसमुद्र इति ख्यातः शङ्खाख्य उत्थापितः । तेन भाणितं मन्त्रिगणे । मन्त्रिन् ! मदीयमेकं नौवित्तकं न सहसे, मदीयमित्रमसौ । तस्माद्वचनात् क्रुद्धो मन्त्री प्रत्यवीवचत् । श्मशानवासी भुतेभ्यो न बिभेति । त्वमेव प्रगुणो भूत्वा युधि तिष्ठेथाः । सन्नद्धः सः । मन्त्रिवस्तुपालोऽपि धवलक्ककाद् भूरिसैन्यमानाय्याभ्यषेणयत् । रणक्षेत्रेऽदितौ द्वौ । शङ्खन निर्दलितं मन्त्रिसैन्यं पलायिष्ट दिशो दिशि । तदा वस्तुपालेन स्वराजपुत्रो माहेचकनामा भाषितः । इदमस्मन्मूलघट्टं वर्त्तते, तत् कुरु येन श्रीवीरधवलो न लज्जते । ततोऽसौ राजपुत्रः स्वैरेव कतिपयैर्मित्रराजपुत्रैः सह तमभिगम्योवाच । शङ्ख ! नेयं वडूयाख्या ग्रामवाटिका, क्षत्रियाणां सङ्ग्रामोऽयम् । शङ्खोऽप्याह-सुष्ठ वक्तुं वेत्सि नायं तव प्रभोः पट्टकिलपरिपन्थनप्रदेशः, किन्तु सुभटस्य क्रीडाक्षेत्रमिदमित्येवं वादे जाते द्वन्द्वरणे माहेचकेन मन्त्रिणि पश्यति मन्त्रिप्रतापाच्छङ्कः पातितः । समरे जातो जयजयाकारः । मन्त्रिणा तद्राज्यं गृहीतम् । वेलाकूलऋद्धीनां का सङ्ख्या । ततः स्तम्भतीर्थमुत्तोरणमुत्पताकमविशत् । प्रविष्टः सदीकसदनम् । तस्य भटानां सप्त द्विगुणशतानि
१. अयं श्लोक आबुप्रशस्तिमध्ये किञ्चित्शब्दव्यत्ययेन समानो सन्ति ।।
D:\bsnta-p.pm5\2nd proof