________________
परिशिष्टम् [१] श्रीवस्तुपालप्रबन्धः ॥]
[१०१ धवलक्ककमागात् । शनैः प्राप्तमर्मप्राणो भीमसिंहमपराध्यन्तं मूलादुच्छेद्य एकवीरां धरित्रीमकरोत् । धवलक्कके राज्यं कुर्वतस्तस्य क्षुभितैः प्रभूतैः परराष्ट्रनृपतिभिः स्वं स्वं दत्तम् । तेन स्वेन सैन्यमेव मेलितम् । चतुर्दशशतानि महाकुलानि राजवंश्यानां राजपुत्राणां मेलितानि । तानि समभोजनवसनभोगवाहनानि तेजःपालस्य शरीरस्थच्छायावत् सहचारीणि समजीवितमरणत्वेन स्थितानि । तबलेन सैन्यबलेन च स्वभुजबलेन च सर्वं जीयते ।
इतश्च महीतटाख्यदेशे गोध्रा नाम नगरं यत्र तत्तत्कार्येषु सङ्ग्रामे मृतानां राजपुत्राणामेकोत्तरशतसङ्ख्यानि स्वयंभूलिङ्गानि उदभूवन् । तत्र घूघुलो नाम मण्डलीकः । स गूर्जरधरां समागन्तुकामान् सार्थान् गृह्णाति । राणश्रीवीरधवलस्याज्ञां न मन्यते । तस्मै मन्त्रिभ्यां वस्तुपालतेजःपालाभ्यां भट्टः प्रेषितः । अस्मत्प्रभोराज्ञां मन्यस्व, अन्यथा साङ्गणचामुण्डादीनां मध्ये मिल इति कथापितम् । तच्छ्रवणात् क्रुद्धेन तेनैव भट्टेन सह स्वभट्टः प्रेषितः । तेनागत्य राणश्रीवीरधवलाय कज्जलगृहं शाटिका चेति द्वयं दत्तम् । उक्तं च ममान्तःपुरं सर्वो राजलोक इति नः प्रभुणा ख्यापितम् । राणेन स भट्टः सत्कृत्य प्रहितः । गतः स्वस्थानम् । राणेन भाषिताः सर्वे स्वसैन्यकाः घूघुलविग्रहाय को बीटकं ग्रहीष्यति ? । कोऽपि नाद्रियते । तदा तेजःपालेन गृहीतम् । चलितः प्रौढसैन्यपरिच्छदः । गतस्तद्देशादर्वाक्भागे कियत्यामपि भुवि स्थित्वा सैन्यं कियदपि स्वल्पमग्रे प्रास्थापयत् । स्वयं महति मेलापके गुप्तस्तस्थौ । अल्पेन सैन्येनाग्रे गत्त्वा गोध्रागोकलानि चालितानि । गोपालाः शरैस्ताडितास्तैरन्तर्गोध्रकं पूत्कृतं गावो ह्रियन्ते कैश्चित् । क्षात्रं धर्मं पुरस्कृत्य धावत इति शब्दश्रुत्या घूघुलो विचिन्तयति नवीनमिदम् केनास्मत्पदमागत्य गावो ह्रियन्ते ।
वृत्तिच्छेदविधौ द्विजातिमरणे स्वामिग्रहे गोग्रहे सम्प्राप्ते शरणे कलत्रहरणे मित्रापदां वारणे । आर्तत्राणपरायणैकमनसां येषां न शस्त्रग्रहः
तानालोक्य विलोकितुं मृगयते सूर्योऽपि सूर्यान्तरम् ॥२९॥ इति वदन्नेव ससेनस्तुरङ्गममारूढः, जातोऽनुपदं गोहर्तृणाम् । गोहद्रोऽपि घूघुलाय दर्शनं ददिरे, शरान् संदधिरे, न च स्थित्वा युध्यन्ते । इत्येवं खेदयद्भिस्तैस्तावन्नीतो घूघुल: यावन्मन्त्रिणो महति वृन्दे पतितः । तेन ज्ञातमीदृशं छोदं मन्त्रिणः । भवतु तावत् घूघुलोऽस्मि । निजा: सुभटाः समराय प्रेरिताः । स्वयमविशेषमभियोगं दधौ । ततो लग्नः संहर्तुम् मन्त्रिपृतनापि डुढौके । चिरं रणरसरभसोऽभूद् । भग्नं घूघुलेन मन्त्रिकटकम् । कान्दिशीकं दिशो दिशि गच्छति । तदा मन्त्रितेजःपालेन स्थिरमश्वस्थितेन तटस्थाः सप्तकुलीनाः शुद्धराजपुत्रा भाषिताः । अरिस्तावद्वली, आत्मीयं तु भग्नं सकलं सैन्यम् । नष्टानामस्माकं का गतिः, किं यशः? । जीवितव्यमपि नास्त्येव । तस्मात् कुर्मः समुचितम् । तैरपि सप्तभिस्तद्वाचाऽभिमतम् । व्याघुटिता अष्टौ, नन्ति नाराचादिभिः परसैन्यम् । तावन्मानं स्ववृन्दं सङ्घटितम् । दृष्ट्वा परेऽपि सत्त्वं धृत्वा चलिताः । तदा तेजःपाल एकत्र अम्बिकां देवीमपरत्र कपर्दियक्षं पश्यति । जयं निश्चित्य प्रसरं तावद्ययौ यावद्धघुल: गत्वा भाषितः । मण्डलीक ! येनास्मन्नाथाय कज्जलगृहादि प्रहीयते तद्भुजबलं दर्शय । घूघुलोऽपि प्रत्याह इदं भुजबलं पश्य इत्युक्त्वा निबिडं युयुधे । द्वन्द्वयुद्धं मन्त्रिमण्डलीकयोः । अथ मन्त्री सहसा दैवतबलाद्भुजबलाच्च तमश्वादपीपतत् , जीवन्तं बद्धा काष्ठपञ्जरेऽचिक्षिपत् , स्वसैन्यान्तर्निनाय ।
D:\bsnta-p.pm5\2nd proof