________________
१००]
[वसन्तविलासमहाकाव्यम् ॥ जयो वा मृत्यु युधि भुजभृतां कः परिभवः। मन्त्रिणा ज्यायसा उक्तं स्वामिन् ! कार्मुककरे देवे के परे पुरोलक्षा अपि ।
कोल: केलिमलङ्करोतु करिणः क्रीडन्तु कान्तासखाः कासारेषु च कासरा: सरभसं गर्जन्त्विह स्वेच्छया । अभ्यस्यन्तु भयोज्झिताश्च हरिणा भूयोऽपि झम्पागति
कान्तारान्तरसञ्चरव्यसनवान् यावद्धि कण्ठीरवः ॥२८॥ कण्ठीवे तु दृष्टे कुण्ठाः सर्वे वन्याः । अन्यच्च प्रभो ! अस्मदीयसैन्ये डोडीयावंशीयो जेहुल:, चौलुक्यः सोमवर्मा, गुलकुल्यः क्षेत्रवर्माऽस्ति । देवस्तु किं वय॑ते कालार्जुनः । एवं वार्तासु वर्त्तमानासु द्वा:स्थः पत्ये व्यजिज्ञपत् । देव पुरुषो द्वारि वारितोऽस्ति, कस्तस्यादेशः । भ्रूसंज्ञया राणकस्तममोचयत् । मध्यमागत्य स उवाच । देव ! सामन्तपालानन्तपालत्रिलोकसिंहस्त्वत्त्यक्तैर्भीमसिंहमाश्रितैः कथापितमास्ते । देव ! त्रिभिर्लक्षैर्ये भटास्त्वया स्थापिता भवन्ति तैरात्मानं रक्षेः । प्रातः कुमार्यां आरेण्यां प्रथमं त्वामेव एष्यामः । इति श्रुत्वा हृष्टेण राणकेन ससत्कारं स प्रैषि कथापितं च । एते वयमागता एव, प्रातर्भवद्भिरपि ढौक्यम् । सर्वेषामपि तत्रैव ज्ञास्यते भुजसौष्ठवम् । गतस्तत्र सः । प्रातर्मिलितं सैन्यद्वयं, वादितानि रणतूर्याणि । अङ्गेषु भटानां वर्माणि न ममुः । दत्तानि दानानि । तैस्तु त्रिभिर्मारवैरात्मीयं वर्षलभ्यं लक्षत्रयं भीमसिंहात् सद्यो लात्वाऽर्थिभ्यो ददे । स्वयमश्वेष्वारूढाः । प्रवर्त्तन्ते प्रहाराः । उपस्थितमान्ध्यं शस्त्रः, पतन्ति शराः कृतान्तदूताभाः । आरूढं प्रहरमात्रमहः । सावधानो वीरधवलः । दत्तावधाना मन्त्र्यादयो रक्षकाः । अत्रान्तरे आगतास्ते मरुवीराः । भाषितः स्वमुखेन वीरधवलः । अयं देव इमे वयम् । सावधानीभूय रक्षात्मानम् । त्वद्योधा अपि त्वां रक्षन्तु । वीरधवलेनाप्युक्तं किमत्र विकत्थध्वे । क्रिययैव दो:स्थाम प्रकाश्यताम् । एवमुक्तिप्रत्युक्तौ लग्नं युद्धम् । तत्रापरेष्वपि तटस्थेषु रक्षत्सु तैर्भल्लत्रयं धीरवीरधवलभाले लगितम् । एवं त्वां हन्मः, परमेकं तव बीटकं तदा भक्षितमस्माभिः, इति वदद्भिस्तैर्वीरधवलस्य तटस्थाः प्रहरणैः पातिताः । तेऽपि त्रयो मारवा व्रणशतजर्जराङ्गाः सञ्जाताः । राणवीरधवल ऊपरवटाश्वात् पातितः । ऊपरवटस्तैौरवैः स्वोत्तारके बन्धितः प्रच्छन्नः । रजसान्धं जगत् तदा । राणश्रीवीरधवलो भुवि पातितो भटैरुत्पाट्य लले । तावता पतिता सन्ध्या । निवृत्तं सैन्यद्वयम् । रात्रौ सर्वेऽपि भीमसेनीया वदन्ति । अस्माभिर्वीरधवल: पातितः । ततो मारवैरभिहितं युष्माभिः पातित इति किमभिज्ञानम् । तैरुक्तं किं भवद्भिः पातितः । मारवैरभिदधेऽस्माभिरेव पातितः । ऊपरवटो वदिष्यति । उत्तारकादानीय ऊपरवटो दर्शितः । तुष्टो भीमसिंहः उक्तवान् शुद्धराजपुत्रेभ्यो दत्तं धनं शतधा फलति । इदमेव प्रमाणम् । रिपुहयहरणं क्षत्रियाणां महान् शृङ्गारः । एवं वार्ताः कुर्वतां भटानां रात्रिर्गता । प्रातर्वीरधवलो व्रणजर्जरोऽपि पटूभूयाक्षैर्दीव्यति । भीमसेनहेरिकैर्गत्वा तत् ज्ञात्वा तत्रोक्तं वीरधवलः कुशली गर्जति । यज्जानीत तत्कुरुत, । भीमसेनाय तन्मन्त्रिभिर्विज्ञप्तं देव ! अयं बद्धमूलो देशेशः । अनेन विरोधो दुरायतिः । तस्मात् सन्धिः श्रेष्ठः । भीमसेनेन मतं तद्वचनं, परं सङ्ग्रामडम्बरः कृतः । अन्योन्यमपि यावदर्दितौ द्वौ तावद्भटैर्मेलः कृतः । ऊपरवराटाश्वो राणाय दापितः । भीमसिंहेन भद्रेश्वरमात्रेण धृतिर्धरणीया, बिरुदानि न पाठनीयानि इति व्यवस्था आसीत् । एवं कृत्वा श्रीवीरधवलो दानं तन्वन्
D:\bsnta-p.pm5\2nd proof