________________
९८ ]
[वसन्तविलासमहाकाव्यम् ॥ विधौ विध्यति सक्रोधे वर्म धर्मः शरीरिणाम् ।
स एव केवलं तस्मादस्माकं जायतां गतिः ॥२५॥ इत्यादि ध्यात्वा वस्त्राणि परावृत्य श्रीवस्तुपालः सपरिजनो बुभुजे । गृहीतताम्बूलो राजगृहमगमत् । एवं दिनसप्तके गते प्रथमं तद्राज्यजीर्णाधिकारी एकविंशतिलक्षाणि बृहद्रम्माणां दण्डितः, पूर्वमविनीतोऽभूद्विनयं ग्राहितः । तैर्द्रव्यैः कियदपि हयपत्तिलक्षणे सारं सैन्यं कृतं तेजःपालेन । पश्चात् सैन्यबलेन धवलक्ककप्रतिबद्धग्रामपञ्चशतीग्रामण्यश्चिरसञ्चितं धनं हक्कयैव दण्डिताः, जीर्णव्यापारिणो निश्च्योतिताः । एवं मिलितं प्रभूतं स्वम् । ततः सबलसैन्यपरिग्रहपटुतेजसं श्रीवीरधवलं सहैवादाय सर्वत्र देशमध्येऽभ्रमन्मन्त्री, अदण्डयत् सर्वम् । ततोऽद्भुद्धिवीरधवलस्तेजःपालेन जगदे ! देव । सुराष्ट्राराष्ट्रे धनिनष्ठक्कुरास्ते दण्ड्यन्ते । ततोऽचलदयम् । लब्ध्वास्वादः पुमान्यत्र तत्र सक्तिं न मुञ्चति ।
अथ वर्द्धमानपुरगोहिलवाड्यादिप्रभून् दण्डयन्तौ प्रभु-मन्त्रिणौ वामनस्थलीमागतौ । तटे चतुष्ककान् दत्त्वा स्थितो वीरधवलः । वामनस्थल्यां तदानीं यौ प्रभू सहोदरौ तौ साङ्गणचामुण्डनामानौ उद्दामस्थामानौ राणकश्रीवीरधवलस्य शालकौ । तदानीं सौजन्यमर्यादां परिपालयन् तद्भगिनी निजजायां जयतलदेवीं मध्ये प्राहैषीद्वहुपरिजनाम् । सा गत्त्वा सहोदरौ समभाषिष्ट भ्रातरौ ! भवतां भगिनीपतिरदण्डदण्डनोऽभङ्गभञ्जनः, गूर्जरधरां प्रतिग्रामं प्रतिपुरं दण्डयन् भवतोर्दण्डनायागतोऽस्ति, दीयतां धनाश्वादिसारम् । एतद्भगिनीवचः श्रुत्वा मदाध्मातौ तौ प्रोचतुः । मन्ये स्वसस्त्वमतः समायाता सन्ध्यर्थं, माऽस्मद्वान्धवयोः समरारूढयोरहं निर्धवाऽभूवम् । मा स्म चिन्तां कृथाः । अमुं त्वत्पति हत्त्वा ते चारु गृहान्तरं कारयिष्यावः । न च निषिद्धोऽसौ विधिः, राजपुत्रकुलेषु दृश्यमानत्वात् । ततो जयतलदेव्याह समानोदयौं नाहं पतिवधभीता वां समीपमागां, किन्तु नि:पितृकगृहत्वभीता । स हि नास्ति वां मध्ये यस्तं जगदेकवीरं ऊपरवटाख्यहयारूढं नाराचान् क्षिपन्तं शल्यं वेल्लयन्तं खड्गं खेलयन्तं द्रष्टमीशिष्यते । कालः साक्षादरीणां सः । अदृष्टपरशक्तिः सर्वोऽपि भवति बलवान् । इत्येवं वदन्त्येव ततो निर्गत्य सा सती पतिसविधं गत्वा तां वार्तामुच्चैरकथयत् । तन्निशम्य वीरधवलो महाक्रोधकरालाक्षो भृकुटीभङ्गभीषणभालोऽनुकृतभीमसेनः सङ्ग्रामममण्डयत् । तावपि वीरातिवीरौ ससैन्यावागतौ । सङ्घटितो रणः पतितानि योधसहस्राणि, पक्षद्वयेऽपि रजसाच्छादितं गगनम् । गतस्वपरविभागे वीरधवलो हत इति सैन्यद्वये व्याचक्रे । क्षणार्द्धन वीरधवलो दिव्याश्वाधिरूढः सारभट्टयुक् साङ्गण-चामुण्डराजयोर्मेलापके गत्त्वा प्रसृतः, ऊचे च रे सौरष्ट्रौ ! गृह्णीतं करे शस्त्रं यद्यस्ति तेजः । इत्युक्त्वा तच्चक्रे । यद्देवैर्दिवि शिरोधूनितं कुर्वद्भिर्ददृशे । हतौ साङ्गण-चामुण्डराजौ, शोधितं रणक्षेत्रम् । पालिताः स्वे परे पालनार्हाः। प्रविष्टो वीरधवलो वामनस्थलीमध्यम् । गृहीतं शालकयोः कोटिसङ्ख्यं पूर्वजशतसञ्चितं कनकं , चतुर्दशशतानि दिव्यतुरङ्गमाणां पञ्चसहस्राणि तेजस्वितुरङ्गमाणां अन्यदपि मणिमुक्ताफलादि । जितं जितमिति उद्घोषः समुच्छलितः । स्थितस्तत्र मासमेकम् । ततो वाजोमानगजेन्द्रचूडासमावालाकादिस्वामिनः प्रत्येकं गृहीतधनाः कृताः ।
१. श्लोक/१६-२५ कीर्तिकौमुदीमध्ये सर्ग-८ श्लोक/३०-३७-३८-४३-४७-४८-४९-५०-५१-५६ सन्ति ।
D:\bsnta-p.pm5\2nd proof