________________
परिशिष्टम् [१] श्रीवस्तुपालप्रबन्धः ॥]
[९७ न सर्वथा कश्चन लोभवर्जितः करोति सेवामनुवासरं विभोः । तथापि कार्यः स तथा मनीषिभिः परत्र बाधा न यथाऽत्र वाच्यता ॥१४॥ पुरस्कृत्य न्यायं खलु जनमनादृत्य सहजानरीन्निर्जित्य श्रीपतिचरितमादृत्य च यदि । समुद्धर्तुं धात्रीमभिलषसि तत्सैष शिरसा
धृतो देवादेशः स्फुटमपरथा स्वस्ति भवते ॥१५॥ किञ्च सम्प्रत्यावां मण्डलीनगरात् सेवार्थिनौ वः समीपमागतौ स्तः सकुटुम्बौ । लक्षत्रयी द्रव्यस्य नो गृहेऽस्ति । यदा देवौ पिशुनवचने लगतः, तदा तावन्मात्रस्वापतेयसहितौ दिव्यं कारयित्वा आवां मोक्तव्याविति । अत्र काहलिकं मर्यादीकृत्य परिग्रहस्य धीरा देवयोश्च भवत्विति राणकाभ्यां धीरां दत्त्वा दापयित्वा प्रधानमुद्राविनिवेशस्तेजःपालस्य करे कृतः, स्तम्भतीर्थधवलक्ककयोराधिपत्यं वस्तुपालस्य विनिवेशितम् । एवं श्रीकरणमुद्रायां लब्धायामन्यैव तयोः स्फूर्तिरुदलासीत् । देवतासान्निध्यात् सहजबुद्धिबलाच्च स्वगृहमायातो वस्तुपालः श्रीजिनराजं पूजयामास । अथ तत्त्वं क्षणमचिन्तयत्
उच्चैर्गर्वं समारोप्य नरं श्रीराशु नश्यति । दैन्यदत्तावलम्बोऽथ स तस्मादवरोहति ॥१६॥ अन्धा एव धनान्धाः स्युरिति सत्यं तथापि ये । अन्योक्तेनाध्वना गच्छन्त्यन्यहस्तावलम्बिनः ॥१७॥ धनी धनव्यये जाते दूरदुःखेन दूयते । दीपहस्तः प्रदीपेऽस्ते तमसा बाध्यतेऽधिकम् ॥१८॥ छत्रच्छायाच्छलेनामी धात्रीचक्रे निवेशिताः । भ्रमन्तोऽपि स्वमात्मानं मन्यन्ते स्थिरमीश्वराः ॥१९॥ कालेन सौनिकेनेव नीयमानो जनः पशुः । क्षिपत्येव धिगासन्ने मुखं विषयशाद्वले ॥२०॥ कायः कर्मकरो यत्तन्नात्र कार्यातिलालना। भृतिमात्रोचितो ह्येष प्रपुष्टो विचिकीर्षति ॥२१॥ प्रयोजकान्यकार्येषु नश्यन्त्याशु महापदि । दुर्मित्राणीव स्वान्येषु बन्धुबुद्धिरधीमताम् ॥२२॥ विषयाविषमुत्सृज्य दण्डमादाय ये स्थिताः । संसारसारमेयोऽसौ बिभ्यत्तेभ्यः पलायते ॥२३॥ दुःखाग्निर्वा स्मराग्निर्वा क्रोधाग्निर्वा हदि ज्वलन् । न हन्त शान्तिमायाति देहिनामविवेकिनाम् ॥२४॥
१. श्लोक/८-१५ कीर्तिकौमुदीमध्ये सर्ग-३ श्लोक/६७-७७ सन्ति ।।
D:\bsnta-p.pm5\2nd proof