________________
[वसन्तविलासमहाकाव्यम् ॥ इत्यादि चिन्तयन् प्रातरुत्थितः । पूर्वोक्तमेवोपदेशं महणदेवी लवणप्रासादायाप्यदत्त । कृतप्रातःकृत्यौ मिलितौ पितापुत्रौ । कथितं रात्रिवृत्तम् । अन्योन्यं तुष्टौ द्वावपि । सदैव च तेषां कुलगुरुः पुरुषसरस्वती सोमेश्वरदेवो द्विजः स्वस्त्ययनायागात् । ज्ञापितोऽसौ वृत्तान्तस्ताभ्याम् । सोऽप्युवाच, देवौ युवयोः प्राचीनपुण्यप्रेरिता देवता अपि साक्षात्तस्मात्तदुक्तमेवाचरतः । मन्त्रिबलं विना न किञ्चिद्राज्यपरिकर्मणम् । मन्त्रिणौ च यौ भवतोरग्रे प्रतिपादितौ तावत्रागतौ स्तः । मम मिलितौ राजसेवार्थिनौ द्वासप्ततिकलाविदुरौ न्यायनिष्ठौ जैनधर्मस्थौ स्तः । यद्यादेशः स्यात्तदाऽऽनीयते । राणकादेशात् पुरोहितेन हि तेन सद्य आनीतौ नमस्कारितौ आसनादिप्रतिपत्त्या गौरवितौ । उक्तौ च श्रीलवणप्रसादाद्वीरधवलेन स्वयम्
आकृतिर्गुणसमृद्धिशंसिनी नम्रता कुलविशुद्धिसूचिका। वाक्क्रमः कथितशास्त्रसङ्क्रमः संयमश्च युवयोर्वयोऽधिकः ॥३॥ श्लाघ्यतां कुलमुपैति पैतृकं स्यान्मनोरथतरुः फलेग्रहिः । उन्नमन्ति यशसा सह श्रियः स्वामिनां च पुरुषैर्भवादृशैः ॥४॥ यौवनेऽपि मदनान्न विक्रिया नो धनेऽपि विनयव्यतिक्रमः । दुर्जनेऽपि न मनागनार्जवं केन वामिति नवाकृतिः कृता ॥५॥ आवयोस्तु पितृपुत्रयोर्महानाहितः क्षितिभरः पुरद्रुहा । तधुवां सचिवपुङ्गवावहं योक्तुमत्र युगपत् समुत्सहे ॥६॥ येन केन च सुधर्मकर्मणा भूतलेऽत्र सुलभा विभूतयः ।
दुर्लभानि सुकृतानि तानि यैर्लभ्यते पुरुषरत्नसुत्तमम् ॥७॥ अथ वस्तुपालः प्राह
देव ! सेवकजनः स गण्यते पुण्यवत्सु गुणवत्सु चाग्रणीः । यः प्रसन्नवदनाम्बुजन्मना स्वामिना मधुरमेवमुच्यते ॥८॥ नास्ति तीर्थमिह पार्थिवात् परं यन्मुखाम्बुजविलोकनादपि । नश्यति द्रुतमपायपातकं सम्पदेति च समीहिता सताम् ॥९॥ सप्रसादवदनस्य भूपतेर्यत्र यत्र विलसन्ति दृष्टयः । तत्र तत्र शुचिता कुलीनता दक्षता सुभगता च गच्छति ॥१०॥ किन्तु विज्ञपयिताऽस्मि किञ्चन स्वामिना तदवधार्यतां हृदा । न्यायनिष्ठुरतरा गिरः सतां श्रोतुमप्यधिकृतिस्तथैव यत् ॥११॥ सा गता शुभमयी जगत्त्रयी देव ! सम्प्रति युगं कलिः पुनः । सेवकेषु न कृतं कृतज्ञता नापि भूपतिषु यत्र दृश्यते ॥१२॥ दृष्टिर्नष्टा भूपतीनां तमोभिस्ते लोभान्धान् साम्प्रतं कुर्वतेऽग्रे । तैर्नीयन्ते वर्त्मना तेन यत्र भ्रश्यन्त्याशु व्याकुलास्तेऽपि तेऽपि ॥१३॥
१. श्लोक ३-७ कीर्तिकौमुदीमध्ये सर्ग-३ श्लोक/५९-६२/६४ सन्ति ।
D:\bsnta-p.pm5\2nd proof