SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ [८९ चतुर्दशः सर्गः] आयुर्बन्धविशिष्टताप्रमुदितः श्रीवस्तुपालं तथा नेतुं सद्गतिपाणिपीडनकृते निर्णीय लग्नादिकम् । सद्बोधं प्रजिघाय मर्त्यभुवने धर्मः स्वदौवारिकं सोऽप्यभ्येत्य जगौ सगौरवममुं धैर्यासनस्थोऽन्तिके ॥३५॥ जाताः के न भवन्ति के न भुवने के नो भविष्यन्ति च श्रीमन्त्रीश्वर ! तावकस्तु महिमा न क्वापि संदृश्यते । यस्माद्विश्वशुभः प्रदातुमचिराद् धर्मः सुतां सद्गतिं श्रीशत्रुञ्जयशैलमौलिवलये त्वामाह्वयत्यञ्जसा ॥३६।। वर्षे हर्षनिषण्णषण्णवतिके श्रीविक्रमोर्वीभृतः कालाद् द्वादशसंख्यहायनशतात् मासेऽत्र माघाह्वये । पञ्चम्यां च तिथौ दिनादिसमये वारे च भानोस्तवोद्वोढुं सद्गतिमस्ति लग्नमसमं तत्त्वर्यतां त्वर्यताम् ॥३७|| सद्बोधादधिगम्य सर्वमिति तत्पीयूषवर्षापमं सन्तापोर्जितिवजितो गिरिवि प्रोल्लासिरोमाङ्कुरः । मन्त्री जैत्रगुणं निजाङ्गजमथ श्रीजैत्रसिंहं समाहूयास्मै नतमौलयेऽवनिधुरामारोप्य शिक्षां ददौ ॥३८॥ वत्स स्वच्छगुणप्रवीण ! भवते शिक्षावच:ख्यापनं यत्किञ्चिज्जनिकर्तृभावविवशैरस्माभिरातन्यते । माधुर्यङ्करणं तदिक्षुशकले शङ्ग्रे च शौक्ल्यार्पणं पावित्र्यप्रथनं बताङ्ग ! पयसि स्वर्णे च वर्णक्रिया ॥३९॥ आधारः सुतरामतः परमसि त्वं वत्स ! राज्यश्रियां नाधारस्तु तवास्ति कोऽपि दधतो धात्री यथा पोत्रिणः । आत्मासौ भवतात्मनैव तदहो तेनैव विश्वत्रयीसङ्गीताद्भुतशक्तिवैभवभृता धीरेण धार्योऽन्वहम् ॥४०॥ किञ्चास्माभिरभिज्ञ ! सदगतिकरग्राहाय धर्माज्ञया । सद्बोधेन निमन्त्रिते नगपतौ शत्रुञ्जये गंस्यते । 25 १. वि. सं. १२९६ माघमासे कृष्णपञ्चमीदिने वस्तुपालो मृत्युङ्गतः ॥ D:\chandan/new/bsnta/pm5\3rd proof
SR No.009570
Book TitleVasant Vilas Mahakavyam
Original Sutra AuthorBalchandrasuri
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages211
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy