________________
5
८६]
[वसन्तविलासमहाकाव्यम् ॥ अत्यर्थं तव दानपात्रततये भूदानलीलायितं श्रुत्वा संसदि गीयमानमुरगीवृन्देन वैरोचनः । कृष्णेऽभ्यर्थिनि तादृशीं मितपदक्ष्मादानितामात्मनः स्मारंस्मारमुदारशेखरहिया न्यञ्चन्मुखो म्लायति ॥१४॥ फुल्लत्कैरवभैरवप्रहसितश्वेतं त्वदीयं यशः श्रुत्वा स्वर्नगरीनरेन्द्रसदसि श्रीधर्मदेवाङ्गजा । नाम्ना सद्गतिरुद्गतान्यपुरुषद्वेषा किमाचक्ष्यते देव ! त्वय्यनुरागिणीच्छति दिशामीशान्न कीशानिव ॥१५।। काङ्क्षन्ती भवतः करग्रहमियं द्वेष्टीन्दुमप्यन्वहं त्वद्दोःश्लेषमना न हारमपि सा कण्ठे समालम्बते । सा ते सूक्तिषु सादरा न कुरुते वीणाक्वणेऽपि श्रुति त्वद्वक्षःशयनार्थिनी सुभग ! सा शेते न तूलीष्वपि ॥१६॥ देव ! त्वद्विरहोल्बणा रणरणानाबिभ्रती बिभ्यती चन्द्राद्याति सखीरपास्य भवनोत्सङ्गे कुरङ्गेक्षणा । तत्रापि स्मितरत्नभित्तिषु निजास्येन्दुप्रतिच्छन्दकात् त्रस्ता त्वन्मनसि प्रवेष्टुमबला सा केवलं रोदिति ॥१७।। तदुःखानि तदीयमातरि मुहुः श्रद्धाभिधायां भृशं ज्ञीप्स्यन्त्यामथ विप्रलम्भतरला पीयूषयाञ्चापदे मातः पायय वस्तुपालमिति वाक्प्रान्तेऽनिमेषाक्षतां निन्दन्ती हृदि सा पानतमुखी निःश्वस्य मोहं गता ॥१८॥ क्रोडीकृत्य निजाङ्गजामथ जगौ श्रद्धापि मा खिद्यथा वत्से ! सर्वमतः परं द्रुतमभिप्रेतं करिष्यामि ते । इत्येतामनुशास्य कान्तवचनैरेकान्तमेत्यात्मनः कान्ताय स्वसुताकथामकथयद्धर्माय शर्मात्मने ।१९।। धर्मोऽपीति निशम्य रम्यचरितप्रीतो जगाद प्रिये ! स्त्रीत्वातीतमतिः सुता कृतवती स्थानेऽनुरागं तव । गण्यः पुण्यवतामयं धुरि धराऽनेनैव रत्नप्रसूः श्लाघ्योऽसौ महतामयं गणमयः श्रीवस्तपालो यतः ॥२०॥
15
D:\chandan/new/bsnta/pm5\3rd proof