________________
चतुर्दशः सर्गः ॥ धर्मः शर्मनिबन्धनं तनुमतां धर्मः कुकर्मद्रुमप्लोषे तत्क्षणमाशुशुक्षणिरिति श्रुत्वा गुरूणां गिरः । तत्तस्य स्थितये वसन्तसचिवः पृथ्व्यामथाकारयद्धर्मस्थानततिं पुरेषु गिरिषु ग्रामेष्वरण्येषु च ॥१॥ प्रत्यद्रि प्रतिपत्तनं प्रतिपुरं श्रीवस्तुपालः कृती धर्मस्थानपरम्परां यदकरोत् तद्युक्तमूहामहे । येनैतद्ध्वजहस्तसाटकमरुद्वीचिं विना कः क्षमस्तत्कीर्तेर्भुवनभ्रमश्रममपाकर्तुं समन्तादपि ॥२॥ आशाराजसुतेऽत्र दुर्युगमहाकल्पे समुज्जृम्भिते मर्यादामवधूय कीर्तिजलधिः क्षोणीमुदप्लावयत् । तत्तत्कारितचारुचैत्यपटलीचञ्चत्पताकापटव्यूहव्याजवपुः पिपर्ति गगनाभोगं यदुर्मिव्रजः ॥३॥ नासीन्नास्ति न वा भविष्यति भुवि ब्रह्मन् वसन्तो यथा त्वद्विज्ञानशिलाकिका यदि पुमानेष्णोयमे......नघम् (?) । इत्याख्यातुमिवैतदाहितमहाप्रासादमालामिषादङ्गल्योऽत्र सुपर्वराजिकलिताः दिग्भिः समुत्तम्भिताः ॥४॥ पुष्पोद्यानगणः स कोऽपि सकलक्ष्मापत्रलेखायितस्तत्तत्कारितचैत्यपूजनकृते मन्त्रीन्दुना यः साक्षादरघट्टभाङकतिभरैर्भेरीजयोदोषिणीरुच्चैर्वादयतीव तीर्थमहसानेनैव भग्ने कलौ ॥५॥ तत्तत्तीर्थपथप्रसृत्वरजनप्रोद्दामखेदच्छिदालङ्कर्मीणपयांसि मन्त्रिमुकुट: सोऽयं सरांसि व्यधात् । यत्राम्भोजवनीवनीपकमहो मत्तालिनां पेटकं प्रोदगञ्जत्पट गायतीव तगरश्वेतं यदीयं यशः ॥६।।
25