________________
त्रयोदशः सर्गः]
[८३ अभ्यर्चयामास च पुष्पदामभिः श्रीखण्डताम्बूलसदंशकैरपि । स वस्त्रपूजां गुरुभक्तिभासितो गुरूपदेशाद् द्युतिमानपि व्यधात् ।।६८।। अनेकमित्रद्विजराजसन्मुनिश्रेणीगुरुभ्यः कविमण्डलाय च । श्रीवस्तुपालो बहुधा तदाम्बरं विश्राणयन् विश्वसृजो व्यशिष्यत ॥६९॥ प्रत्येकमुच्चैरनुयानपूर्वकं सम्मान्य सम्मान्य कृताञ्जलिः कृती । तांस्तांश्च सङ्घानथ सङ्घपार्थिवो निजं निजं देशमभि व्यसर्जयत् ॥७०|| निजानुजस्कन्धनिवेशितं पुरा स प्राज्यसाम्राज्यधुरांशमात्मनः । श्रीवस्तुपालः पुनरेव लीलया दध्रे भुवो भारमिवादिशूकरः ॥७१।। भूभारं दधतश्च गूर्जरपतेस्तस्योपधुर्यो महामन्त्री बुद्धिनियन्त्रितारिनिवह: श्रीवस्तुपालः कृती । राज्यं प्राज्यमयं पराक्रममयं त्यागैकलीलामयं
धर्मोद्धारमयं सदा नयमयं पाति स्म सम्पन्मयम् ॥७२॥ इति सिद्धसारस्वताचार्यश्रीबालचन्द्रविरचिते वसन्तविलासनामनि महाकाव्ये
रैवतकयात्रावर्णनं नाम त्रयोदशः सर्गः ॥ त्वचं केचित् केचित् पललमपरेऽस्थीनि रभसादसूनप्यात्मायानहह ! ददिरे केऽपि कृतिनः । प्रियां प्राणेभ्योऽपि क्वचिदपि जयन्त ! क्षितितले महात्मन्नथिभ्यस्त्वमिव न हि कोऽपि श्रियमदात् ॥
15
.
.
.
D:\chandan/new/bsnta/pm5\3rd proof