________________
८२]
[वसन्तविलासमहाकाव्यम् ॥ तीर्थेषु यात्रामधिसूत्र्य सर्वतो निर्विघ्नकामो यदिहाहमागमम् । तत्ते विभो ! शश्वदयं शुभोदयी पदप्रसादप्रसरो विजृम्भते ॥५४।। चौरा हता वर्त्मनि तीर्थभूभृतां कुर्युः कथं सङ्घजनेषु वैशसम् । यस्मादमुष्मिस्तव देव ! शासने विजृम्भमाणे यदि सन्ति ते श्रुतौ ॥५५।। प्रसत्तिभाजो मयि तीर्थदेवता बतात्र सर्वेऽप्यभवन् कथं न हि । यदेवमभ्यागमनाभिभाषणप्रवृत्तिमेतां त्वमसूत्रयः प्रभो ! ॥५६।। परं च यत्पुण्यमुपाजितं मया सोमेशदामोदरमुख्ययात्रया । तन्माङ्गलिक्यीकृतमेव देव ! ते सुस्वामिने दुष्प्रतिकार ! सर्वथा ॥५७।। श्रुत्वेति सङ्घाधिपतेर्गरीयसीमसौ गिरं तेन पुरस्कृतस्ततः । अभ्येत्य देवालयदेवदैवतं ननाम राजा मुदितो यथाविधि ।।५८।। सङ्घाधिनाथः सुरनाथसन्निभं विभुं भुवस्तं भुवनैकभूषणः । प्रधानवस्त्राभरणैरनेकधा संस्कृत्य सौधाय सुधीय॑सर्जयत् ॥५९॥ गुरूपदिष्टेऽहनि सङ्घनायकः स्नातो युतः सङ्घजनैरनेकशः । ऋद्ध्या महत्या प्रविवेश तत्पुरं पुरन्ध्रिनीरन्ध्रसमूहवीक्षितः ॥६०।। पूजा विशेषात् सविशेषमानसस्ततान स श्रीजिनराजवेश्मसु । ददौ च वाञ्छाधिकमर्थिनामहो दानं स्वकामानिव कल्पपादपः ॥६१।। शृङ्गारभारालसगात्रयष्टयः पुराङ्गनाः पुष्कलरूपसम्पदः । तमङ्गं वर्धापयितुं तदालये तदाविशन्नक्षतपात्रपाणयः ॥६२॥ तदाज्ञया तज्ज्ञजनाभिसम्भृतस्तन्मन्दिरे मन्दरशैलसम्पदि । विधातुमुच्चैरथ देवभोजनं बभूव भूयानभितोप्युपक्रमः ॥६३।। मुक्तावचूलाञ्चितचारुपद्मकान्विता व्यताड्यन्त वितानपङ्क्तयः । तस्मिन्निबद्धाः कदलीभिरुच्चकैः साकं च माकन्दकतोरणस्रजः ॥६४॥ कस्तूरिकाकुङ्कुममण्डलावलीविराजितायां मणिकुट्टिमावनौ ।
तत्र व्यधीयन्त विधूस्रकान्तयो मुक्ताकणैः स्वस्तिकराजराजयः ॥६५।। 25 बभूव पक्वान्नमनेकधैकतः सव्यञ्जनाऽस्मिन् रसवत्यथान्यतः ।
ताम्बूलपुष्पादिरुपस्करस्तथैकतोऽन्यतश्चांशुकसंचयो महान् ॥६६॥ अथ प्रकामं प्रतिलाभितव्रतिव्रजोऽथ साधिपतिर्यथाविधि । निमन्त्र्य भक्त्यादरपूर्वमञ्जसा महायशाः सङ्घजनानभोजयत् ॥६७।।
20
D:\chandan/new/bsnta/pm5\3rd proof