________________
त्रयोदशः सर्गः ]
[ ८१
वसन्तनाम्नः किल सङ्घभूभृतः प्रतापसम्पद्गलितोरुविक्रमः । उपद्रवं चोरगणश्चकार न प्रसह्य सङ्घे गिरिमार्गवर्तिनि ॥४०॥ नीरन्ध्रशाखाविततावनीरुहामधः प्रयान्तं निजधाम लीलया । तताप सङ्घं निजतापसम्पदा वसन्तभीत्येव दिवाकरोऽपि न ॥४१॥ वीङ्जोग्रवामीवृषवाहवाहनक्षुण्णावनीतोऽनिलनीतमम्बरे । रजः सना सङ्घजमातपत्रतां बभार चण्डांशुकरोपरोधकृत् ॥४२॥ ग्रामाकरद्रोणमडम्बपत्तनान्यनेकशः सङ्घवृषो विलङ्घ्य सः । समस्तसङ्खेन समन्वितः समाययौ पुरे गूर्जरनिर्जरेशितुः ||४३|| प्रत्यालयं द्वारभृतोरुतोरणं प्रत्यट्टमुट्टङ्कितचारुकेतनम् । तदागमे तत्प्रतिवीथिकुङ्कुमच्छटोत्तरं पौरजनः पुरं व्यधात् ॥४४॥ इन्द्रः सहोपेन्द्र इव स्मरो यथा समाधवो भानुरिवारुणान्वितः । सतेजपालः प्रतिपन्नबन्धुताप्रसादसम्पादितसम्मदस्ततः ॥४५॥ तस्याययौ सम्मुखमुल्लसन्मुखप्रभापराभूतविभावरीविभुः । श्रीवीरपूर्वो धवलः क्षितीश्वरः सेनारजोनश्वरदिग्व्यवस्थितिः ॥४६॥ युग्मम् ॥ उत्तीर्य सङ्घाधिपतिस्तुरङ्गमादमुष्य यावत्कुरुते नमस्कृतिम् । तावत्प्रसादोल्लसितेन भूभुजा दृढं भुजाभ्यामुपगूढ एव सः ॥४७॥ श्रीतेजपालः प्रमदाश्रुपूरितेक्षणः क्षणादग्रजमेनमानमत् । श्रीवस्तुपालः परिरभ्य तं पुनश्चचुम्ब मौलौ विकस्तनूरुहः ॥४८॥ जातीयसौजन्यजुषः परस्परं नार्यस्तदानीं परिरेभिरेऽभितः । घटोन्नतैः सङ्घटितेतरेतरस्तनैः सुदूरं विनिवारितोदरा: ॥ ४९ ॥ चुलुक्यवंशार्णवपूर्णचन्द्रमाः प्राग्वाटगोत्राम्बुधिकैरवं ततः । वसन्तपालं समुवाच वाचया नृपः सुधासारसमानसारया ॥५०॥ तीर्थेषु निर्विघ्नमयि ! स्वकाम्यया विधाय यात्रां समुपागतो भवान् । अयीदमारोग्यतमं वपुस्तव श्रीसङ्घलोकेन समं समन्ततः ॥ ५१ ॥ अयि ! क्वचिद्वर्त्मनि तीर्थभूभृतामयं न चौरैश्चरटैरुपद्रुतः । न श्वापदैः सिद्धिपदैषिणस्तव श्रीसङ्घसङ्घातजनो महामते ! ॥५२॥ अयि प्रसन्नास्त्वयि तीर्थदेवताः सर्वेप्यजायन्त निवेद्यतामदः । इतीरिते वीरनृपेण सादरं वसन्तपालस्त्विति वाचमूचिवान् ॥५३॥
D:\chandan/new/bsnta / pm 5 \ 3rd proof
5
10
15
20
25