________________
5
10
15
20
त्रयोदशः सर्गः ॥
अथादितीर्थेशमुपत्यकापुरीवतंसमभ्यर्च्य वसन्तसञ्ज्ञितः । सङ्घाधिनाथो गुरुसङ्घसंयुतस्तं रैवतं पर्वतमारुरोह सः ॥१॥ गिरीन्द्रमारूढवतोऽस्य सानुषु स्थिता ददत्योऽलिरवैः किलाशिषः । शाखाभुजोल्लासितपल्लवाञ्चलैर्निरुञ्च्छनानीव लता विनिरे ॥२॥ सङ्घेशिता नेमिजिनेशितुस्ततः प्रासादमासादयति स्म सादरः । बलेन यः केतुकरेण कल्मषच्छिदार्थमाकारयतीव देहिनः ॥३॥ तस्मिन्नसौ सङ्घयुतो जिनेश्वरं श्रीनेमिनामानममानमानसः । विलोक्य केकीव पुरो नवाम्बुदं भेजे मुदं बाष्पकदम्बितेक्षणः ॥४॥ महीतलोत्तंसितमौलिमण्डलस्ततो जिनाखण्डलमेनमादृतः । प्रणम्य सम्यक्कवितागुणः कृती स देवदैत्यस्तुतमस्तवदिति ॥५॥ तुभ्यं महानन्दसरोजभास्वते पारेतमोयोगिविलोकितात्मने । श्रीनेमिनाथ ! स्मरदर्पदारिणे त्रैधं त्रिकालैकविदे नमो नमः ॥६॥ स्तुत्वेति तीर्थङ्करमाकरो धियामयं नयज्ञो गुरुभिः समन्वितः । समाहितो निर्मितचैत्यवन्दनः स्नात्रक्रमं कर्तुमधादुपक्रमम् ॥७॥ पयोजघण्टापटहोरुझल्लरीमृदङ्गभेरीवभङ्गिसङ्गिनि । सुश्राविकामङ्गलगीतिडम्बरे गिरेर्गरीयः शिखरेषु मूर्च्छति ॥८॥ सुक्षीरमुख्यैरमृतैर्यथाक्रमं कर्पूरमुख्यैरपि सैष पञ्चभिः । असिस्नपत्तीर्थपतिं समन्वितः सुश्रावकैः काञ्चनकुम्भपाणिभिः ||९|| युग्मम् ॥ गजेन्द्रकुण्डाम्बुभृतैर्महर्द्धिभिः कुम्भैः कराम्भोजसलीलनामितैः । ततोऽपि जायापतयो निरन्तरं जिनेश्वरं ते स्नपयाम्बभूविरे ॥१०॥ आत्मानुकूलप्रकृतिः कृतादरो दुकूलपाणिः परमेशितुर्वपुः । न्यमार्जयत् सङ्घपतिः समाहितो जन्माभिषेके मरुतामिवेश्वरः ॥११॥