________________
द्वादशः सर्गः]
[७७ इत्येवं बत रैवतक्षितिधरव्यावर्णनापद्धतौ तेजःपालपुरप्रथामवितथामाकर्ण्य वैतालिकात् । प्रीतात्मा गुरुसङ्घलोकसहितो गत्वात्र मन्त्रीश्वरः
श्रीवामेयजिनार्चयं विरचयाञ्चक्रेऽतिशक्रः श्रिया ॥५०॥ इति सिद्धसारस्वताचार्यश्रीबालचन्द्रविरचिते वसन्तविलासनामनि महाकाव्ये 5
रैवतकगिरिवर्णनं नाम द्वादशः सर्गः ॥ आधार: पन्नगानां पतिरवनिधरग्रामणीरेष मध्ये प्राच्यप्रत्यक्पयोधी सिचयपरिचयः कण्टकश्चन्द्रलोकः । आस्यं च स्वर्गलोकस्त्रिदशपुरसरिद्वीचयः पल्लवाः श्रीमन्त्रीन्दो वस्तुपालात्मज ! तव यशसः पूर्णकुम्भस्य पश्य ॥
D:\chandan/new/bsnta/pm5\3rd proof