________________
७६]
[वसन्तविलासमहाकाव्यम् ॥ अत्र रात्रिमरुदेणचक्षुषां स्तेनवद्धरति मानसम्पदम् । सागसि प्रियतमे करोत्यहो तेन बद्धरति मानसं पदम् ॥३९॥ प्रालम्बवानिव निपातिषु निर्झरेषु कोटीरवानिव जिने शिरसि प्रतिष्ठे । अस्तं विधावुदयमंशमति प्रयाति ताडङ्कवानिव विराजति शैलराजः ॥४०॥ स्वर्दण्डान्वितममरापगादुकूलं दिक्पुत्रीकलितमुडुव्रजावचूलम् ।। एतस्य क्षितिधरनायकस्य मूर्ति व्योमेदं श्रयति महातपत्रलीलाम् ॥४१॥ नागार्जुनेनार्जुनशक्तिना दृषन्मयो महानत्र दशारमण्डपः । कीर्णोऽस्ति साकं पशुवाटवेदिकैकस्तम्भसौधाम्बुखलूरिकादिभिः ॥४२॥ राजीमतीपाणिनिपीडनोद्यमे विलोक्य भोज्यार्थमुपाहतान् पशून् । संसारनिविण्णमना जिनाधिपः शिवैकसोपानमिवैनमासदत् ॥४३।। इह प्रसूनैर्ऋतवो निरन्तरं षडप्युपास्ति रचयन्ति नेमिनः । पर्यायवृत्तिर्न मता मनीषिमां धर्मार्जने श्रीरियमित्वरी यतः ॥४४।। श्रीनेमिनाथस्य जगत्त्रयीशितुः सेवासु हेवाकितचित्तवृत्तिभिः । उपत्यकामुष्य नरैर्निरन्तरं निचीयते किञ्च सुरैरधित्यका ॥४५।। भावप्रपातिवरकोकनदान्वितोऽयं भावप्रपातिवरकोकनदान्वितोऽयम् । देव ! क्षमाधरसमान ! महागिरीश ! देवक्षमाधरसमानमहागिरीशः ॥४६।। श्रीनेमिः कर्णधारः प्रवहणति भवाम्भोनिधौ पर्वतोऽयं कूपाः शृङ्गाणि शाम्बादिकसुरलयनीपञ्जरी बन्धुरूपाः । अत्रारित्रावलीत्वं सततमुभयतः शाखिनामुल्लसन्त्यः शाखाः पाषाणसन्धिप्रकरभवमरुत्कम्प्यमानाः श्रयन्ते ॥४७।। कैलासस्य यथालकाऽचलपतेरस्योपकण्ठावनौ मुक्ताजालविशालसालवलयं देवानुजः स्वाख्यया । तेजःपालपुरं पुरं विरचयाञ्चक्रे यदन्तःस्थितं चैत्यं पार्श्वजिनस्य नायकमणिप्रागल्भ्यमभ्यस्यति ॥४८॥ तीरेऽस्यैव कुमारदेविजननीश्रेयः कृतेऽकारयत् कासारं सुकृतैकसार ! भवतः श्रेयान् स एवानुजः । यद्वारीणि निपीय पङ्कजरजोहारीणि धुन्वन् शिरः श्लाघां सङ्घजनः करोति मुदितो यस्यादितो जन्मनः ॥४९॥
D:\chandan/new/bsnta/pm5\3rd proof