________________
द्वादशः सर्गः]
[७५ ननु वनराजी राजति मन्त्रिन्नतिपृथुलकुचा मृदुलवलीका । दिव्यस्त्रीणामपि ततिरस्मिन्नतिपृथुलकुचा मृदुलवलीका ॥२६॥ पर्यायसङ्कोचविकाशवद्भिः सूर्येन्दुवंश्यैररविन्दवृन्दैः । इहोच्चकैरत्नतटांशुभिन्नध्वान्तेऽनुमीयेत दिनत्रियामा ॥२७॥ भ्रमरहितविकचसुमनोमुनिभिर्विनिकाममयमितो नूनम् । भ्रमरहितविकचसुमनोमुनिभिविनिकाममयमितोऽनूनम् ॥२८॥ स्फाटिकशृङ्गव्यवहितमूर्तिकरटिघटामुपलक्ष्य............लः । ................सपदि मृगेन्द्रोऽमुष्मिन् पतति विलक्ष्यः ॥२९॥ वनान्यमुष्मिन् परितो विभान्ति सदानदन्तीन्द्रवशाकुलानि । चैत्यानि च प्रेक्षणकोत्सवेन सदा नदन्तीन्द्रवशाकुलानि ॥३०॥ इह नदमाला वहति मनोहतिकरतरवारिरुहाणि । ननु सचिवेश ! यशांसि भवानिव करतरवारिरुहाणि ॥३१॥ अत्रस्थायी भवतु मुदे वो नेमी देवो नेमी रतिपतिमन्युध्वंसी । मन्युध्वंसीव गुणनिकाये गौरीकाये गौरीव सति निकामं यस्य ॥३२॥ श्रीनेमिचैत्यमभितः सुरसद्मवारैस्तारैरुदारतरशुक्तिभवानुकारैः । 15 आपूरिताखिलनतोन्नतशृङ्गदेश: पृथ्वीवधूमुकुटतामयमेति शैलः ॥३३॥ कण्ठेकालः साम्बुभिः शेषभागे भस्मोद्धूली व्यम्बुभिश्चाम्बुवाहैः । शीर्षप्रेडद्वल्लरीभिर्जटावान् साक्षादग्रे ते गिरीशो गिरीशः ॥३४॥ तन्वते धवलताभृतः स्फुरच्चित्रकाः प्रबलभीप्रपञ्चिनः । मत्तवारणमनोहरा गिरेरस्य पादगिरयो गृहायितम् ॥३५॥ इह विविधमणीप्रकाशगौणीकृतशुचिरोचिरधित्यकावनीषु । विहरति हरिदश्व एष शाखामृग इव केवलपिङ्गलांशुलोमा ॥३६॥ स्निग्धाञ्जनद्युतिभृतः कनकावदातं तेजोन्तरा कलयतः प्रतिगर्जतश्च । अस्याम्बुदस्य च परिक्षरतः पयांसि प्रेक्षापरः परमहो यदि वायुरेव ॥३७॥ श्लथयति न यदास्मिन् खेचरी मानमुद्रां मृदुलपदविलासंबोधिता कोकिलाभिः। 25 कुपित इव तदानीं भापयन् गर्जनादैर्नयति नियतमेतां भर्तृकण्ठं पयोदः ॥३८॥
D:\chandan/new/bsnta/pm5\3rd proof