________________
5
10
15
20
25
७४]
[ वसन्तविलासमहाकाव्यम् ॥
द्विषां दधानो वशमुज्जयन्तं विडम्बयन्नन्दितमुज्जयन्तम् । उत्पश्यमानो गिरिमुज्जयन्तं श्रिया सुरेन्द्राचलमुज्जयन्तम् ॥१२॥ श्रीवस्तुपालो जगदेकवीरः श्रीवस्तुपालो जगदे कवीरः । वैतालिकेनाचलसंस्तवेन वैतालिकेनाचलसंस्तवेन ॥ १३॥ युग्मम् ॥ अचल एष चुलुक्यसभामणे ! सकलभः सहरिः कटकोत्कटः । सचिवभूप ! भवानिव भासते सकलभः सहरिः कटकोत्कटः ||१४|| विभाति कैलास इवेश्वरेण शिवाङ्गभाजा वृषभासितेन । श्रीनेमिनाथेन कृताधिवास: शिवाङ्गभाजा वृषभासितेन ॥ १५ ॥ अयमुदञ्चति सिन्धुरसङ्गतैर्विदुलकैरधिसिन्धुरसं गतैः । वनचरैः सुखसारसखञ्जनैरधिरतोऽपि च सारसखञ्जनैः ॥१६॥ अस्मिन् गणः केसरिणामहिंस्रः कृशो दरीसङ्गमलालसानाम् । प्रभावतो योगमहाधनानां कृशोदरीसङ्गमलाऽलसानाम् ॥१७॥ अयमितः कलधौतशिखावलैरधिगतः कलकेकिशिखावलैः । अनुसरः पृथुकैरवशोभितः करिवधूपृथुकैरवशोभितः ॥१८॥ लभेत दन्ताभिभवान् विधुं तुदन्विधुन्तुदः स्फाटिकशृङ्गसङ्गतम् । न जातु जायेत शितिर्विभावरी विभावरीयोदृषदीह भूधरे ||१९|| मुनिसंहतिः सकरुणा करुणादिकवृक्षपुष्पसुरभिः सुरभिः । इह सर्वतः सकमला कमलाकरसन्ततिर्विकसितासिता ||२०|| अयं निकुञ्जानि बिभर्त्ति पापहन्ताप्सरोविभ्रमरोचितानि । हन्ताप्सरोविभ्रमरोचितानि शृङ्गाणि शृङ्गारयते च शैलः ||२१|| इह खेचरवृन्दमुदारमते सुरतेन नदीषु मुदा रमते ।
अधिपङ्कजसंहति सा रसिका न हि वल्लभमुज्झति सारसिका ॥२२॥ सुवर्णसंभारभृतो नमेरुवनीतलक्रीडितपूर्वविष्णोः । एतस्य साधर्म्यमुपैति सोऽपि सुवर्णसंभारभृतो न मेरुः ||२३|| अत्र संफुल्लनीपावनीपावनी वल्गुवेणीलताभासिता भासिता । वल्लकीवादने बन्धुरा बन्धुरा दृश्यते चेदहो किन्नरी किन्नरी ||२४|| अस्मिन् घनाः श्यामलतासुकान्ता लतासु कान्तासहिताः सुरेभाः । हिताः सुरेभाः सुसमीरयन्तः समीरयन्तः सततं गतानि ॥ २५ ॥
D:\chandan/new/bsnta / pm 5 \ 3rd proof