________________
द्वादशः सर्गः ॥
अथ कृतसुकृतश्शुलुक्यभर्तुः सचिवशचीपतिरुन्मिषत्प्रमोदः । गिरिवरमुपसृत्य रैवताख्यं रुचिरममुं चिरकालमालुलोके ॥१॥ अविरलसरलप्रवालजालप्रसृमरकान्तिकदम्बकैतवेन । अधिभवजलधि ज्वलन्तमुच्चैर्व्वलनमिवारुणामौर्वनामधेयम् ॥२॥ कटकतटशिलानिपातचूर्णीभवदुरुनिर्झरशीकरोत्करेण । कलियुगमलिने नितान्तमभ्युक्षणमिव भूमितलेऽखिले क्षिपन्तम् ॥३॥ अनुवनमलिकोकिलामयूरैरनुनदमाटिबकोटकङ्ककोकैः । अनुसरसि मरालसारसाद्यैर्मुखरितमूर्जितकूजितैः समन्तात् ॥४॥ जिनबलिपटहाऽसमाननादैरुपरि घनाघनगर्जितैश्च मध्ये । मदगजरसितैरधश्च वाचालितगगनाष्टदिगन्तभूमिदेशम् ॥५॥ समुदितवनवह्निदह्यमानागरुवनधूमगुरूमिकानिकायैः ।। निजवपुरवगुण्ठितप्रवृष्टाम्बुदशुचिवस्त्रमिवोपधूपयन्तम् ॥६॥ क्वचिदपि चमरैः क्वचिच्च पूरैः क्वचन मृगैः क्वचिदेव चाच्छभल्लैः । क्वचिदपि कपिभिः क्वचिद्वराहै: क्वचन गजैरपि राजमानकुञ्जम् ॥७॥ अनुपथमुपरूढभूतशाखासुखविनिविष्टशुकाभिनन्द्यमानैः । दिशि दिशि च गमागमप्रवृत्तैर्जिनपतियात्रिकधोरणैरुपेतम् ॥८॥ जिनपतिमहिमप्रशान्तवैरव्यसनतया चिरमेणचित्रकेण । विषधरनकुलेन हस्तिसिंहेन च कृतसौहृदमुन्दिरौतुना च ॥९॥ अनुदिशमकृशप्रभाविभिन्नान्धतमसवृत्तिभिरौषधीवितानैः । जिनपतिमभिराद्धमागतानामतभुजां निवहैरिवोपरुद्धम् ॥१०॥ अनलसरसवश्यधातुखन्याञ्जनविषपादपपादिकल्पहस्तैः । अनुतटतटिनीगुहानिकुञ्ज दिशि दिशि योगिजनैरुपास्यमानम् ॥११॥ एकादशभिः कुलकम् ॥
20
D:\chandan/new/bsnta/pm5\3rd proof