________________
७२]
[वसन्तविलासमहाकाव्यम् ॥ किं ब्रूमो बहुधा चुलुक्यसचिवश्रेष्ठानुरागादिव । प्राप्तं पृष्ठत एव पत्तनमिति भ्रान्ति समातन्वति । एतस्मिन् कटके गृहोपवनिकालक्ष्मीरुपात्ता वनैः
क्रीडापर्वतता च पादगिरिभिश्चूलाचलालम्बिभिः ॥९४॥ 5 इति सिद्धसारस्वताचार्यश्रीबालचन्द्रविरचिते वसन्तविलासनामनि महाकाव्ये
प्रभासतीर्थाधिपयात्रावर्णनं नाम एकादशः सर्गः ॥ सप्ताम्भोधिषु नादिमलतुलां तन्वत्सु दिग्मण्डलीदामोड्डामरितामराद्रिसुमहद्वंशाग्ररङ्गाङ्गणे । कीर्तिवंशनटीव नृत्यति तव श्रीवस्तुपालात्मज ! प्रीतः पश्यति तां च किं च गणनातीतो गणः स्वर्गिणाम् ॥
10
D:\chandan/new/bsnta/pm5\3rd proof